SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३९॥ सत्ता प्रकृतिसत्कमस्थानस्वामित्वं | नामसहिता भवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बद्धायुष्कः पश्चात्सम्यक्त्वं प्राप्य तन्निमित्तं तीर्थकरनामकर्म बद्धा नरकाभिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं प्रतिपद्यते, ततोऽन्तर्मुहूर्त कालं यावत् षण्णवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । उक्तं च-"उभए संति न मिच्छो' इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा द्वयोः सासादनसम्यमिथ्यादृष्टिगुणस्थानकद्वयोर्दै द्वे प्रकृतिसत्कर्मस्थाने, तद्यथा-व्युत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः पञ्चनवतिः। शेषाणि क्षपकश्रेण्यामेकेन्द्रियादौ च संभवन्तीति कृत्वा इह न प्राप्यन्ते । तथा द्वयोरनिवृत्तिवादरसूक्ष्मसंपरायलक्षणयोर्गुणस्थानकयोरष्टकं अष्टौ प्रकृतिसत्कमस्थानानि । तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , पण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिश्च । तत्रानिवृ. | तिवादरस्यादिमानि चत्वारि उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्न त्रयोदशकं क्षीयते । शेषाणि पुनः क्षपकश्रेण्यामेव । सूक्ष्मसंपरायः | | स्यादिमानि चत्वारि उपशमश्रेण्याम् , शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे इमानि चत्वारि,तद्यथा-त्र्युत्तरशतम् . द्वयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः । क्षीणमोहसयोगिकेवलिनोः पुनरमूनि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिश्च । 'छ त्तु अजोगम्मि ठाणाणित्ति-अयो गिकेवलिनि षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिः, नव, अष्टौ चेति । एतेषामादिमानि | चत्वारि अयोगिकेवलिद्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरौ प्रतीत्य द्वे अन्तिमे प्रकृतिसत्कर्मस्थाने ॥१५॥ Databases ॥३९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy