SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ OINODecket | गतस्तमाश्रित्याष्टाविंशतिः । यस्तु मिथ्यादृष्टिः सन् सम्यक्त्वोद्वलनं कृत्वा सप्तविंशतिसत्कर्मा सन् सम्यमिथ्यात्वमनुभवितुं लग्नस्त माश्रित्य सप्तविंशतिः। विसंयोजितानन्तानुबन्धिनः सतश्चतुर्विंशतिसत्कर्मणः सम्यमिथ्यादृष्टित्वावस्थामपेक्ष्य पुनश्चतुर्विशतिः | | प्राप्यते । तथाविरतसम्यग्दृष्टिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकवि- | | शतिश्चति । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टा । अष्टाविंशतिसत्कर्मण अनन्तानुबन्धिक्षये द्विविधस्यापि तस्य चतुर्विंशतिः। वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते द्वाविंशतिः । क्षाथिकसम्यग्दृष्टेरेकविंशतिरिति । तथा देशविरतिगुणस्थाने पञ्च प्रकृतिसत्कर्मस्थानानि,तानि चानुपदमभिहितान्येव । एतान्येव पञ्च षष्ठे सप्तमे च गुणस्थाने । अथानन्तरमपूर्वकरणगुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेण्यामक्षायिकसम्यग्दृष्टेचतुर्विंशतिः, क्षायिकसम्यदृष्टेस्तु द्वयोरपि श्रेण्योरेकविंशतिः । तथाऽनिवृत्तिबादरसम्परायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश पञ्च चतस्रस्तिस्रो वे एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य । एकविंशतिः | क्षायिकसम्यग्दृष्टेद्वयोरपि श्रेण्योः । शेषाणि तु स्थानानि क्षपकश्रेण्यां, तानि च प्रागेव भावितानि । सूक्ष्मसम्परायगुणस्थानके त्रीणि 13 प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिरेकविंशतिरेका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते द्वे अप्युपशमश्रेण्यां, क्षपकश्रेण्यां त्वेका । तथोपशान्तमोहगुणस्थाने द्वे प्रकृतिसत्कर्मस्थाने चतुर्विंशतिरेकविंशतिश्च, एते द्वे प्राग्वद्भावनीये ॥१२॥ संखीणदिविमोहे केई पणवीसई पि इच्छति । संजोयणाण पच्छा नासं तेसिं उवसमं च ॥१३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy