SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३६॥ asaa ऽनन्तानुबन्धिक्षये वेदकसम्यग्दृष्टेरौ पशमिक सम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिध्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते द्वात्रिंशतिः । क्षायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि तानि च पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके । तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोन्नित्ति - अथानन्तरं अपूर्वकरणगुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेणिं प्रतिपन्नस्य चतुर्विंशतिः, क्षायिकसम्यग्दृष्टिमधिकृत्य द्वयोरपि श्रेण्योरेकविंशतिः । तथाऽनिवृत्तिवादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि तद्यथा - चतुर्विंशतिः, एकविंशतिः, त्रयोदश, द्वादश, एकादश पञ्च चतस्रः, तिस्रः, द्वे, एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिक सम्यग्र श्रेण्योः, शेषाणि पुनः क्षपकश्रेण्याम्, तानि च प्रागेव भावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि तद्यथाचतुर्विंशतिः, एकविंशतिः, एका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते च द्वे अपि प्रकृतिसत्कर्मस्थाने उपशमश्रेण्यां, एका च क्षपकश्रेण्याम् । तथा द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा - चतुर्दशतिरेकविंशतिश्च । एते च द्वे अपि प्रागिव भावनीये ॥१२॥ (उ० ) – एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानेषु चिन्तयन्नाह - यावदुपशान्तमोहगुणस्थानकं तावन्मिध्यादृष्ट्यादिषु गुणस्थानेषु क्रमेण व्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिध्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः सप्तविंशतिः, पविंशतिश्चेति । एतानि च प्रागेव भावितानि । सासादनगुणस्थाने एकं प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिध्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः सप्तविंशतिः, चतुर्विंशतिश्चेति । तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यमिध्यात्वं Dashvasaay सत्ता प्रकृतिसत्कस्थानस्वामित्वं ॥३६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy