SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ eGCDSEKADARSIOS (मलय०)-सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाह-एगाई' त्ति । मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तद्यथा-एका, द्वे, तिस्रः, चतस्रः, पञ्च, एकादश, द्वादश, त्रयोदश, एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, पडविंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखावबोधार्थ गाथाक्रमवैपरीत्येन भाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यनिध्यात्वे उलिते षड्विंशतिः, अथवाऽनादिमिथ्यादृष्टेः पविंशतिः । अष्टाविंशतिरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । सतो मिथ्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिथ्यात्वे क्षीणे द्वाविंशतिः। ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः पटसु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः। ततः संज्वलनमाने क्षीणे दे। संज्वलनमायायां च क्षीणायामेका ॥११॥ (उ०)-अथ मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनायाह-मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तथाहि-एकाद्याः पञ्च.IY एका द्वे तिस्रश्चतस्रः पञ्च चेत्यर्थः, तथैकादश द्वादश त्रयोदशौकविंशतिस्रयोविंशतिश्चतुर्विशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिश्चति । एतानि सुखावबोधाय गाथाक्रममुत्सृज्य भाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। सम्यक्त्वे उलिते सप्तविंशतिः। का ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते षड्विंशतिः, यद्वाऽनादिमिथ्यादृष्टेः षड्विंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः। ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः। ततः सम्यमिथ्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः। ततोऽष्टसु कषा-IX येप क्षीणेष त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः पसु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुष va GSFASOARE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy