________________
HDCARDSTNEWS
खाण ताव दोन्नि संत । गोयस्स जाव एग न खाण उव्वालय वा ताव दाान्न सत, णायागात खावत उच्चागाए वा उब्वलीए एगं संतं, तहा दोन्नि एगंति दो संतवाणाणि भवंति ॥१०॥
(मलय०)-तदेवमुक्तमेकैकप्रकृतिसत्कर्म । संप्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह । 'पहमति-प्रथमचरमयोञ्जनावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानम् । तच्च क्षीणकषायचरमसमयं यावत् सत् , परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा-पट नव चतस्रः । तत्र सकलदर्शनावरणीयप्रकृतिसमुदायो नव । ताश्च नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावत् सत्यः । क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिवादरसंपरायाद्धाया यावत् संख्येया भागास्तावत्सत्यः, परतःस्त्यानर्द्धित्रिकक्षये षट् भवन्ति । ताश्च तावत्सत्यो यावत् क्षीणकषायस्य विचरमसमयः । तस्मिन् द्विचरमसमये निद्राप्रचले व्यवच्छिद्यते। ततश्चरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनीयायुगोत्राणां द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र वेदनीयस्य यावदेकं न क्षीणं तावत् द्वे सत्यौ, एकस्मिस्तु क्षीणे एका । गोत्रस्य यावदेकं न क्षीणं उद्वलितं वा तावत् द्वे सत्यौ । नीचर्गोत्रे क्षपिते उच्चो वा उदलिते पुनरेका सती । आयुषस्तु यावद्भद्धमायुनोंदेति तावत् द्वे प्रकृती सत्यौ । उदिते तु तस्मि प्राक्तनं क्षीगमिति एका प्रकृतिः ॥१०॥
(उ०)–तदेवमुक्तमेकैकप्रकृतिसत्कर्म, सम्पति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकत्यात्मकं स्थानं, तच्च क्षीणकषायचरमसमयं यावत्सत् , परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा| षट् नव चतस्रः । तत्र समुदिताः सर्वा दर्शनावरणप्रकृतयो नव, ताश्चोपशमश्रेण्यामुपशान्तमोई यावत्सत्यः, क्षपकश्रेण्यां त्वनिवृत्तिवा
DONDOORDIODOG