________________
CRIKCAROLORS
न क्षयमुपगच्छतस्तावत्सन्तौ । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सन्सु हास्यादिषद्कं युगपत्क्षयमुपयाति, ततः समयोनावलिकाद्विकातिकमे पुरुषवेदः । एवं पुरुषवेदेन क्षपकश्रेणिं | प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषट्कं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं संख्येपेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनक्रोधः क्षयमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येपेषु स्थितिखडेपु गतेषु संचलनमाया । यावच्च हास्यादिप्रकृतयः क्षयं नोपयान्ति तावत्सत्यः । 'तणुरागतो त्ति लोभो यत्ति-लोभः संज्वलनलोभो यावत्तनुरागान्तः सूक्ष्मसंपरायगुणस्थानकान्तः नावत् सन् वेदितव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य पुनस्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुणस्थानकं यावत् सत्योऽवसेयाः ॥७॥
(उ०)-प्रागुक्तप्रकृतिपोडशकक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु गतेषु नपुंसकवेदः क्षीयते, यावच न क्षीयते तावत्मन् । ततः पुनरपि स्थितिखण्डेषु सङ्खयेयेषु गतेषु स्त्रीवेदः क्षीयते, सोऽपि यावन्न क्षयं याति तावत्सन् । एवं स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यं, नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावच्च न क्षयमुपगच्छतस्तावत्सन्ती, उपशमश्रेणिमधिकृत्य तूपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु हास्यादिषट्कं युगपत्क्षीयते, | ततः समयोनावलि काद्विकातिक्रमे पुरुषवेदः। एवं पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं | प्रतिपत्रस्य तु पुरुषवेदो हास्यादिषट्कं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं सङ्ख्ययेषु स्थितिखण्डेषु गतेषु संज्वलनक्रोधः क्षीयते ।। ततो भूयोऽपि सङ्ख्येयेषु स्थितिखण्डेषु गतेषु संज्वलनमानः । ततोऽपि सङ्खयेयेषु स्थितिखण्डेषु गतेषु संचलनी माया । यावच्च हास्या