________________
वं जहा जोगे अप्पाबहुगं भणियं तहा पदेसअप्पबहुअंपि भाणियव्वं । एक्केक्कस्स जीवस्स पदेसगुणगारो प लितो मस्स असंखेज्जतिभागो । जोगा परूविता ॥ १६ ॥
(मलय ० ) – 'अमण' ति-अमना - असंज्ञी, पर्याप्तचतुरिन्द्रियोत्कृष्टयोमात् असंज्ञिपश्चेन्द्रियपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । | ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो भोगभूमिजानां | तिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः । ततः शेषाणां देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । असंख्येयगुणकारश्च सर्वत्रापि सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगतप्रदेशराशिप्रमाणो द्रष्टव्यः । 'तइयतणुगेसु' त्ति - तृतीया तनुराहारकशरीरम् ॥ १६ ॥
(उ०) — अमना - असंज्ञी । ततः पर्याप्तचतुरिन्द्रियोत्कृष्टयोगादसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽनुत्तरो| पपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो भोगभूमिजानां तिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । ततस्तृतीया तनुराहारकं शरीरं येषां ते तृतीयतनुकास्तेषूत्कृष्टो योगोऽसंख्येयगुणः । ततः शेषाणां | देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । असंख्येयगुणकारोऽत्र सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगत प्रदेशराशिप्रमाणो द्रष्टव्यः । पर्याप्ताश्च सर्वत्रापि करणपर्याप्ता द्रष्टव्याः ॥ १६ ॥
इदाणिं तेहिं जोगेहिं पोग्गले घेतूण पंचण्डं सरीराणं जोगे सरीरत्ताए परिणामेति, आणापाणूभासमणत्ताए य अवलंबति, तेसिं परिणावण अवलंबणाणं के पोग्गला जोग्गा ? के वा अजोग्गा ? तं णिरूवणत्थं भण्णति