SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२९॥ सत्ता स्वामित्वं HDINGCOMCast | इहरहा अस्थि ॥४॥ ___(मलय०)-'तिसु' त्ति-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यमिथ्यादृष्टिलक्षणेषु नियमादवड्यन्तया मिथ्यावं सत् विद्यमानम् , शेषेषु पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् । तथाहि-अविरतसम्यग्दृष्टयादिना क्षपिते न भवति, उपशान्ते तु भवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा. 'आसादने-सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् , कदाचिद्भवति कदाचिन्न भवतीत्यर्थः। तथाहि-मिथ्यादृष्टावभव्ये न भवति, भव्येऽपि कदाचिद्भवति कदाचिन्न । तथा सम्यग्मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे उदलितेऽपि भवति, ततस्तत्रापि तद्भाज्यम् । अविरतादिषु पुनः क्षपकेषु न, भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम् ॥४॥ (उ०)–त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यग्मिध्यादृष्टिलक्षणेषु नियमादवश्यंभावेन मिथ्यात्वं सत् विद्यमानम् । शेषेषु १३ पुनरष्टसु गुणस्थानकेषूपशान्तमोहपर्यवसानेषु भाज्यं विकल्पनीयं कदाचित्सत्तायां भवति कदाचिन्नेत्यर्थः। तथाहि-अविरतसम्यग्दृष्टयादिना क्षपिते नास्ति, उपशमिते त्वस्ति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा 'आसाणे' त्ति-सासादने सम्यक्त्वं सम्यक्त्वमोहनीयं नियमादस्ति, यत औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां सासादनो लभ्यते । तत्र च नियमादष्टाविंशतिसत्कमैवासौ भवतीति भावः । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहान्तेषु भाज्यं भवति, कदाचिद्भवति, कदाचिन्न "भवतीत्यर्थः । तथाहि-मिथ्यादृष्टौ जीवेऽनादिषड्विंशतिसत्कर्मण्युदलितसम्यक्त्वपुजे मिश्रेऽपि सम्यक्त्वपुञ्जोद्वलनानन्तरं कियत्कालमवतिष्ठमानमिश्रभावेऽविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यक्त्वमोहनीयं सत्तायां न प्राप्यते OCREEDORAENT ॥२९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy