SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ S 10 | कसाया होति चउद्ध'त्ति-अर्णताणुबंधिणो संतकम्मं पडुच्च चउविहा-सादियाइ। कह ? भन्नति-सम्माद्दा?णा | उवलियं तं पुणो भिच्छत्तं गतो बंधति तं पडुच्च साइयं संतकम्म, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुच्चुत्ता। 'तिहा सेस'त्ति-छन्वीसुत्तरस्स पगतिसयस्स संतकम्मं तिविहं-अणातियधुवाधुवमिति । कहं ? भण्णइ-धुवसंतकंमत्तातो आदी नत्धि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । सादिअणातिपरूवणा भणिया ॥२॥ __ (मलय०)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह-'दिद्विदुग'त्ति। 'दृष्टिद्विक' सम्यक्त्वसम्यग्मिथ्यात्वरूपं, आयूंषि चत्वारि, 'छग्गइ' त्ति-मनुष्यद्विकं देवद्विकं नरकद्विकं च, 'तनुचतुर्दशक'-वैक्रियसप्तकाहारकसप्तकरूपं, तथा तीर्थकरनामोच्चैर्गोत्रं च, एतासाम टाविंशतिप्रकृतीनां सन्कर्म द्विविध-द्विप्रकारम् , तद्यथा-सादि अध्रुवं च । साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा प्रथमकषाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तथाहि-ते सम्यग्दृष्टिना प्रथममुदलिताः, ततो | मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः EXI षड् विंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा-त्रिप्रकाराः, तद्यथा-अनादयो ध्रुवा अध्रुवाच । तत्रानादित्वं ध्रुवसत्कर्मत्वात् , ध्रुवाध्रुवता पूर्ववत् ।।२।। (उ.)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणामाह-दृष्टिद्विकं सम्यक्त्वसम्यमिथ्यात्वरूपं, आयूंषि चत्वार्यपि, 'छग्गई' त्ति| मनुष्यद्विक देवद्विकं नरकद्विकं च, तनुचतुर्दशकं-वैक्रियसप्तकाहारकसप्तके, तीर्थकरनाम, उच्चैोत्रं च, एता अष्टाविंशतिप्रकृतयः | सत्कर्म प्रतीत्य द्विविधाः-सादयोःधुवाश्चेति । साद्यध्रुवभावश्चासामध्रुवसत्कर्मत्वादेवावसेयः । तथा प्रथमकषाया अनन्तानुबन्धिनः | CREDIOSRA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy