________________
D
कर्मप्रकृतिः
॥२६॥
उदयः जघन्यप्रदेशोदयस्वामित्वं
तीर्थकरनाम्नस्तु क्षपितकमांशस्योदयप्रथमसमये जघन्यः प्रदेशोदयो ज्ञेयः, परतो गुणश्रेणिदलिकं प्रभूतमवाप्यते इति स न भवति ॥३२॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः ॥ ___ (उ०) उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वाच्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां तस्मिन्नेवैकेन्द्रिय| मवे उदयोऽस्ति तेषां तत्रैव भवेऽचिरादुदये जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयप्रथमसंस्थान| पञ्चकौदारिकाङ्गोपाङ्गवैक्रियांगोपांगसंहननषद्कविहायोगतिद्विकाससुभगसुस्वरदुःस्वरादेयरूपाणां तत्रोदयासंभवस्तेषामेकेन्द्रियभवादुद्ध| त्य तत्तदुदययोम्येषु भवेत्पन्नस्य तत्तद्भवयोग्यास्तास्ता बह्वीः प्रकृतीर्वेदयमानस्य सर्वपर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, तत्त
भवयोग्यबहुप्रकृतिवेदन हि पर्याप्तस्योपपद्यते । उदयप्राप्तानां च बह्वीनां प्रकृतीनां स्तिबुकसक्रमो न भवति । तथा च सति विवक्षित| प्रकृतीनां जघन्यः प्रदेशोदयः संभवतीत्यभिसंधाय सामर्थ्यात् पर्याप्तस्येति विवृतम् । तीर्थकैरनाम्नस्तु क्षपितकाशस्योदयप्रथमसमये जघन्यः प्रदशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकस्य प्रभूतस्यावाप्तेस्तदसंभव इति ॥३२॥
॥ इति उपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदयाधिकारः ॥
DRODGAR
DRODDiSODE
॥२६॥