SearchBrowseAboutContactDonate
Page Preview
Page 1211
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः RSHA ॥२५॥ उदयः जघन्यप्रदेशोदय. स्वामित्वं DOODCerana कालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमपरिपालने हि भूयांसः कर्मपुद्गलाः परिसटिता भवन्तीति कृत्वा चिरकालसंयमग्रहणम् । उद्योतग्रहणे च | कारणं प्रागुक्तमेवानुसतव्यम् ॥३१॥ (उ०)-देवगतिवधिसमाऽवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदोद्योतवेदको भवति | 'ताहे'-तदा देवगतेजघन्यः प्रदेशोदयो वाच्यः । कोऽत्र हेतुः ? इति चेत् , उच्यते-यावदुद्योतनाम नोदयमास्कन्दति तावत्तद्देवगतौ स्तिबुकसंक्रमेण संक्रम्यते । ततः संक्रमोपनीततद्दलिकानुप्रवेशात्तस्या जघन्यः प्रदेशोदयो नावाप्यते । उदयप्राप्तस्य तद्योतनाम्नः स्तिबु. कसंक्रमो न भवतीत्युद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति, पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदय इति स्मर्तव्यम् । तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तेन्तिमकाले आहारकशरीरी जात उद्योतं च वेदयते स्म, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमानुपालने हि भूयांसः कर्मपुद्गलाः परिशटन्तीति चिरकालसंयमग्रहणं, उद्योतग्रहणे च हेतुः प्रागभिहित एवानुसतव्यः॥३१॥ सेसाणं चक्खुसमं तंमि व अन्नंमि वा भवे अचिरा । तज्जोगा बहुगीओ पवेययंतस्स ता ताओ ॥३२॥ (चू)-'सेसाणं चक्खुसमंति-मणुयगतिवज्जातो तिन्नि गतीते आहारसत्तगं चत्तारि आणुपुवीतो थावरं तित्थकरनाम एते सोलसकंमा मोत्तण अवसेसा णामस्स सत्तासीति कंमा तेसिं सत्तासीते कमाणं 'चक्खसम ति-चक्खुदंसणावरणसरिसा भाणियब्वा जाव एगिदिएसु उप्पन्नो 'तमि व अन्नंमि व भवे अचिरा'त्ति-तंमि ॥२५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy