________________
कर्मप्रकृतिः ॥२४॥
|ततियसमते आवलियातीयं उदयं आगच्छति तेण पढमसमयग्गहणं ॥२९-३०॥
(मलय०)-'संजोयणा इत्यादि-'संयोजनान्' अनन्तानुवन्धिनो विसंयोज्य, तद्विसंयोजने हि शेषाणामपि कर्मणां भूयांसः पुद्गलाः उदयः परिसटन्ति इति तदुपादानम् । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुद्ध पश्चिमेऽन्तर्मुहूर्ते प्रतिपन्न मिथ्यात्व एकेन्द्रियप्रायोग्याणां
जघन्यप्र| प्रकृतीनामुत्कृष्टां स्थिति बद्धा सर्वसंक्लिष्ट एकेन्द्रियेपूत्पन्नस्तत्र चान्तर्मुहर्त स्थित्वाऽसंज्ञिषु मध्ये समायातः । देवो हि मृत्वा नासंज्ञिषु
देशोदय
|स्वामित्वं मध्ये गच्छतीति कृत्वा एकेन्द्रियग्रहणम् । ततोऽसंज्ञिभवाल्लघु शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तः । तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः। पर्याप्तस्य हि प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताच स्तिबुकसंक्रमेण . | न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमाभावात् जघन्यः प्रदेशोदयः प्राप्यत इति 'सव्वपञ्जत्ते' इत्युक्तम् । आनुपूर्व्यश्चतस्रोऽपि 'गति तुल्या:'-स्वस्खगतितुल्या ज्ञेया ज्ञातव्याः। केवलं 'भवादौ-भवप्रथमसमये वेदितव्याः । तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मलता उदयमागच्छन्ति ततो भवप्रथमसमयग्रहणम् ।।२९-३०॥
(उ०)--संयोजनाननन्तानुबन्धिनो विसंयोज्य तद्विसंयोजने शेषाणामपि कर्मणां भूयः पुद्गलपरिशाटो भवतीति तदुपादानम् । (ततो | जघन्यं देवत्वं प्राप्तः) तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूत्ते प्रतिपन्नमिथ्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थिति बहा सर्वसंक्लिष्ट एकेन्द्रियेषु मध्ये समुत्पन्नः। तत्र चान्तमहत्तं स्थित्वाऽसंज्ञिषु मध्ये समागतः । देवो हि मृत्वाऽऽनन्तर्येण नासंजिषु गच्छतीत्यनन्तरैकेन्द्रियभवग्रहणम् । ततोऽसंज्ञिभवाद् शेषासंज्ञिसर्वजीवापेक्षया लघु-शीघं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तस्त- ॥२४॥ | स्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः । पर्याप्तस्य प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयप्राप्ताश्च स्तियुक