________________
कर्मप्रकृतिः
॥२२॥
उदय: जघन्यप्र
देशोदय
स्वामित्वं
HORITERAGSODODCORASi
सम्यक्त्वप्रभावतः प्रभृतान् पुद्गलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परिशाटयति । ततः पुनरपि मिथ्यात्वं गतः | मिथ्यात्वप्रत्ययेन च भूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्य आवलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धवानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो भवति, ततो जघन्यः प्रदेशोदयो न लभ्यते इति कृत्वा आवलिकायाश्चरमसमये इत्युक्तम् । संसारे चैकजीवस्य चतुष्कृत्व एव मोहनीयस्योपशमो भवति न पञ्चकृत्व इति चतुष्कृ. त्वो ग्रहणम् । मोहोपशमनेन किं प्रयोजनम् ? इति चेत् , उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुण| संक्रमेण प्रभूतं संक्रमयति, ततः क्षीणशेषाणां तेषां अनन्तानुबन्धिषु बन्धकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणम् ।।२६।। ____ (उ०)-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहृत्तं गते सति मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययेन संयोजयत्यनन्तानुबन्धिनो बध्नाति, तान् बद्धा परिणामपरावृत्या सम्यक्त्वं गतः, तच्च दीर्घकालं द्वात्रिंशं सागरोपमशतं यावदनुपालयति, सम्यक्त्वप्रभावतश्च तावता कालेन प्रभृताननन्तानुबन्धिनां सम्बन्धिनः पुद्गलान् प्रदेशसंक्रमद्वारेण परिशाटयति । ततः पुनरपि मिथ्यात्वं गत्वा मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तस्यावलिकाया बन्धावलिकायाश्चरम समये पूर्ववद्धानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः। आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदीरगानिष्पन्न उदयो भवति ततो जघन्यः प्रदेशोदयो न | लभ्यत इत्यावलिकायाश्चरमसमय इत्युक्तम् । संसारे चैकजीवस्य चतुर्वारमेव मोहोपशमो भवति न पञ्चवारमिति चतुर्वारग्रहणम् । मोहोपशमग्रहणस्य किं प्रयोजनम् ? इति चेत्,उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रभृतं संक्रमयति, ततोऽन्यत्र संक्रमद्वारा क्षीणशेषाणां तेषामनन्तानुबन्धिषु बन्धकाले स्तोकमेव दलिकं संक्रामतीति मोहोपशमग्रहणम् ॥२६॥
॥२