SearchBrowseAboutContactDonate
Page Preview
Page 1204
Loading...
Download File
Download File
Page Text
________________ DISCkakkar ऽऽबलिकायाश्वरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यः प्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकपायपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य तासां सप्तदशप्रकृतीनामेवमेवोदीरणोदयचरमसमये जघन्यः प्रदेशोदयः । आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन प्रथमसमय एव द्वितीयस्थितेः सकाशाद्दलिकमा. कृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति । तद्यथा-प्रथमसमये प्रभृतं, द्वितीयसमये विशेषहीनं, तृतीयसमये विशेषहीनं, एवं यावदावलिकाचरमसमये विशेषहीनम् । एवं दलिंकरचनायां कृतायामावलिकायाश्चरमसमये जघन्यः प्रदेशोदयो लभ्यते । उपशान्तकषाय उपशामको वा कालगतः सन् सर्वार्थसिद्धे महाविमाने यातीति भगवत्यादौ सिद्धम् , तत्र च नपुंसकवेदस्त्रीवेदशोकमोहनीयानन्तानुबन्ध्यरतिमोहनीयप्रकृतीनामुदयो नास्तीति तत्प्रतिषेधः कृतः ॥२५॥ चउरुवसमित्तु पच्छा संजोइय दीहकालसम्मत्ता । मिच्छत्तगए आवलिगाए संजोयणाणं तु ॥२६॥ (च)-चत्तारि वारे उवसाम करेंतस्स बहुगा पोग्गला गुणसेढीए सेसमोहकमाणं खिजंति खीणसेसा | बज्झमाणीसु थोवा संकभिस्संति पच्छा 'संजोजियत्ति-पच्छा अणंताणुबंधिणो बंधित्तु अंतोमुहत्तं दीहकाल 'संमतंति-पुणो संमत्तं पडिवनो सागरोवमाणं बे छावट्ठीतो संमत्तं अणुपालेत्तु अंते मिच्छत्तं गयस्स आवलियाए गयाते से काले पढमसमयबद्धस्स उदीरणुदेतित्ति 'संजोयणाण'त्ति-अणंताणुबंधीणं जहन्नतो पदेसुदओ भवति॥ (मलय०)-'चउरुवसमित्तुति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्ययेन 'संयोजनान्' अनन्तानुबन्धिनो बध्नाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं द्वात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन्
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy