________________
Gadah
माप्तोऽपर्याप्तो द्वीन्द्रियादिस्तस्मिन्नुत्कृष्ट इतरस्मिंश्च पर्याप्ते द्वीन्द्रियादौ जघन्य इतरश्चोत्कृष्टः परिपाठ्या संख्येयगुणो वक्तव्यः । तद्यथा-पर्याप्तकबादरैकेन्द्रियोत्कृष्टयोगात् द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येय गुणः । ततः संज्ञिपश्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि चतुरिन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । पर्याप्तकाश्च सर्वत्रापि करणपर्याप्ता वेदितव्याः ।। १५ ।।
(उ०)—ततः आदिद्विकस्यापर्याप्तसूक्ष्मबाद रैकेन्द्रिय लक्षणस्योत्कृष्टो योगः क्रमेणासङ्ख्येयगुणो वाच्यः । तथाहि — लब्ध्यपर्याप्तकसंज्ञिपश्चेन्द्रियजघन्ययोगात्सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसङ्खयेयगुणः । ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्घयेयगुण इति । ततः 'सिं' चि-अनयोः सूक्ष्मबादरकेन्द्रिययोः पर्याप्तयोर्जघन्य इतरश्चोत्कृष्टो योगः क्रमादसङ्ख्येयगुणो वाच्यः । तथाहि - लब्ध्यपर्याप्तकबाद रैकेन्द्रियोत्कृष्टयोगात्सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्येयगुणः । ततो बादरै केन्द्रियस्य पर्याप्तस्य जघन्ययोगोऽसङ्ख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्घयेयगुणः । ततोऽपि बादरैके|न्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्ख्येयगुणः । ततोऽसमाप्तोऽपर्याप्तो द्वीन्द्रियादिरिति परिशेषाल्लभ्यते, तस्मिन्नुत्कृष्ट इतरस्मिँश्च पर्याप्ते