________________
कर्मप्रकृतिः ॥१७॥
उदय: उत्कृष्टप्रदेशोदयस्वामित्वम्
LADDEDICAara
तीतिन्नित्ति-देसविरयगुणसेढी विरयगुणसेढी अणंताणुबंधिउव्वलणगुणसेढीय देसविरतो सुविसुज्झतो संजमं पडिवजति तस्स पढमा गुणसेढी, बितिया संजमं पडिवन्नस्स गुणसेढी, सो चेव विसुज्नंतो अणंताणुवंधिणो विसंजोएति, तिन्नि वि पूरितातो ततियगुणसेढिए, तातो तिन्नि वि गुणसेढीतो काउंतिण्ह वि गुणसेढीण सीसगे वहमाणस्स पंचण्हं संघयणाणं उक्कोसतो पदेसुदओ। 'आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स'त्ति-आहारसत्तगउज्जोवाणं उत्तरवेउब्विए वद्यमाणो अपमत्तयं गतो तस्स पढमसेढीए सीसं पत्तस्स उक्कोसओ पदेसुदओ। ___(मलय०)-'संघयण'त्ति । इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः, ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति, ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां | विसंयोजनायोत्थितः, ततस्तनिमित्तां गुणश्रेणिं करोति । एवं द्वितीयादयस्तिस्रो गुणश्रेणयो भवन्ति । ताश्च कृत्वा तासां शिरस्सु वर्तमानस्य प्रथमसंहननवर्जानां पञ्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनौ उत्तरशरीरे आहारके - वर्तमानस्याप्रमत्तभावं गतस्य संयतस्य प्रथमगुणश्रेणीशिरसि वर्तमानस्याहारकसप्तकोद्योतयोरुत्कृष्टः प्रदेशोदयः ॥१८॥
(उ०)-प्रथमसंहननवर्जस्य शेषसंहननपञ्चकस्य द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिथो मिलितशीर्षा उत्कृष्टपदेशोदयस्थानानि | भवन्ति । इयमत्र भावना-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिपत्ययां गुणश्रेणिं करोति । ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां विसंयोजनायोत्थितः सँस्तन्निमित्तां गुणश्रेणिं करोति । एवं द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिलिता भवन्ति । ताश्च कृत्वा तासां
॥१७॥