SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ 24 DECERCAREEK | परिसटन्ति, स्तोका एव च शेषीभवन्ति, ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्तं लघुक्षपणयाऽभ्युत्थितस्येति । तस्य | गुणितकांशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति । नवरं 'ओहीणाणोहिलद्धिस्स' |ति-अवध्योवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य क्षपणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । | अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिसटन्ति-क्षीयन्ते ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम् । तथा मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकाशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः | प्रदेशोदयः । तथा जिने केवलिनि उदयों यासां ता जिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकांशस्य सयोगि| केवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्नः पुनरुच्चासनिरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकरोच्चैर्गोत्राणां द्वादशप्रकृतीनांगुणितकाशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ ___ (उ०)-उत्कृष्टप्रदेशोदयस्वामित्व एव विवेकमाह--आवरणस्य पश्चप्रकारस्य ज्ञानावरणस्य चतुष्प्रकारस्य च दर्शनावरणस्य विघ्नस्य पञ्चप्रकारस्यान्तरायस्य सर्वसंख्ययाऽऽसां चतुर्दशप्रकृतीनां लघुक्षपणयाऽभ्युत्थितस्य तस्य गुणितकांशस्य क्षीणमोहगुणस्थानकचरम| समये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः । इह द्विधा क्षपगा--लघुक्षपणा चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नस्तत्प्रतिपयनन्तरं चान्तर्मुहतेन क्षपकश्रेणिमारभते तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभृतकालं गृह NROERSION
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy