________________
SADISCK
| साधनादिप्ररुपणा द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह-मोहनीयायुर्वर्जानां षण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः । तथाहि-सादिरनादिध्रुवोऽधुवश्च । तत्र कश्चित् क्षपितकमाशो दिवि देवो जातस्तत्र च संक्लिष्टो | भूत्वोत्कृष्टां स्थिति बध्नन्नुत्कृष्टं प्रदेशाप्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पनः, तस्य प्रथमसमये प्रागुक्तानां | षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तद्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषामेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा-अनादिधुंवोऽध्रुवश्चेति । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टप्रदेशोदयो गुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य लभ्यते, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः सदैव भावात्, ध्रुवाध्रुवौ प्राग्वत् । तथा मोहे-मोहनीयेऽजघन्योऽनुत्कृष्टश्च | प्रदेशोदयश्चतुर्विधः साधनादिध्रुवाध्रुवभेदात्, तथाहि-क्षपितकाशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिका | मात्रदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य वनादिः, ध्रुवाध्रुवौ प्राग्वत् । तथा गुणितकाशस्य सूक्ष्मसम्परायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । तथाऽऽयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यधुवाः, चतुर्णाम| प्येतद्देदानां यथायोगं प्रतिनियतकाल एव भावात् । तथा प्रागुक्तानां षण्णां मोहनीयस्य चेति सर्वेषां कर्मणामुक्तशेषौ विकल्पावुत्कृ|टजघन्यरूपी साधध्रुवौ, तौ च प्रागेव भावितौ ॥६॥
DIRROROSCka
AGE