SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ उदयः ., सोऽपि तस्य चित्रकार, तयथा-अनादिनानस्य प्राप्यते । स चाहनायऽजघन्योऽउत्तर कर्मप्रकृतिः तकमाशो देवलोके देवो जातः, स च तत्र संकलिष्टो भूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाग्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेत्पन्नः, तस्य प्रथमसमये ग्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्व, ततोऽन्यः सर्वोऽप्यजघन्यः , सोऽपि तस्य द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषा-2 ॥५॥ १३ मेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिर्बुवोऽध्रुवश्च । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टः प्रदेशोदयः प्रागुक्तस्वरूपस्य गुणितकांशस्य स्वस्त्रोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव भावात्, ध्रुवाध्रुवौ पूर्ववत् । तथा 'मोहे'-मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुवोऽधुवश्च । तथाहि-क्षपितकाशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामाबदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि ततो द्वितीयसमये भवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकांशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः। स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवौ पूर्ववत् । तथा आयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यध्रवाः, चतुर्णामपि मेदानां यथायोगं नियतकालं भावात् । तथा सर्वेषां कर्मणां प्रागुक्तानां पण्णां मोहनीयस्य चोक्तशेषौ विकल्पो उत्कृष्टजघन्यरूपौ साद्यध्रुवौ, तौ च प्रागेव भावितौ ॥६॥ (उ०)-उक्तोऽनुभागोदयः,अथ प्रदेशोदयो वक्तुमवसरप्राप्तः । तत्र चेमावर्थाधिकारौ-साधनादिप्ररूपगा स्वामित्वं चेति । तत्र ॥५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy