SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ द्रष्टव्यम्, उदयोदीरणयोः सहभावित्वात् । तथाहि-पत्रोदयस्तत्रोदीरणा, यत्रोदीरणा तत्रोदयः । किं सर्वत्राप्येवम् ? इति चेत्, अत आहमुवा एकचत्वारिंशत्प्रकृतीः । तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि ज्ञानावरणपञ्चकदर्शनावरणचतु|ष्टयान्तरायपञ्चक संज्वलनलो भवेदत्रय सम्यक्त्वमिध्यात्वरूपा विंशतिप्रकृतीः स्वस्वोदय पर्यवसाने आवलिकामात्रं कालमधिकं वेदयन्ति, उदीरणामन्तरेणापि केवलेनोदयेनावलिकामात्रं कालमनुभवन्तीत्यर्थः । तच्चावलिका मात्रं त्रयाणां वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ आवलिकाशेषायाम्, शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने । तथा चतुर्णामप्यायुषां स्वस्वपर्यवसाने आवलिकामात्र कालमुदय एव भवति, नोदीरणा । मनुष्यायुर्वेदनीययोर्वाऽप्रमत्ता- अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्त्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्य शरीरपर्याप्त्यनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदुदीरणामन्तरेणापि केवलेनैवोदयेन निद्राः पञ्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्त सुभगादेय यशः कीर्त्यचैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वं कालं यावद केवलेनैवोदयेन वेदयन्ते, केचित्तीर्थकरमपि ये तीर्थकृतः ।। १-२-३।। ( उ० ) - तदेवमभिहितानि करणानि । साम्प्रतमुद्देशक्रमप्राप्तमुदयमभिधित्सुराह - उदय उदीरणातुल्यः । उदीरणायाः प्रकृत्यादयो ये | भेदाः प्रागुक्ता या च साद्यादिप्ररूपणा यच्च स्वामित्वं तत्सर्वमन्यूनानतिरिक्तमुदयेऽपि ज्ञातव्यं, उदयोदीरणयोः सहभावित्वात् । तथाहियत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, तत्किं सर्वत्राप्ययं नियम १ इति चेत्, प्रायो नियम एवेत्याशयं हृदि व्यवस्थाप्य व्यभि चारस्थानव्यवच्छेदं विवक्षुराह - 'मोक्षण पगचत्ताल' इत्यादि, मुक्त्वा एकचत्वारिंशत्प्रकृती रुक्तनियमो द्रष्टव्यः, तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि - आवरणानि ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, 'विग्ध' ति अन्तराय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy