SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ ख्यानाद्गृहीतः । ततश्च स्थितिबन्धे कपायोदयाः स्तोका इति । किमुक्तं भवति ? बन्धनकरणाध्यवसायाः सर्वस्तोकाः, तेभ्य उदीरणाध्यवसाया असंख्येयगुणाः । ततोऽपि संक्रमाध्यवसाया असंख्येयगुणाः। संक्रमग्रहणेन चात्रोद्वर्तनापवर्तने अपि गृहीते द्रष्टव्ये, संक्रमभेदत्वात्तयोः । तत उपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधन्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया | असंख्येयगुणाः ॥७४॥ ॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ॥ (उ०)-अधुनाऽष्टानामपि करणानां येऽध्यवसायास्तेषां प्रतिनियतपरिमाणप्ररूपणार्थमाह-स्थितिबन्धे उपलक्षणादनुभागबन्धे |च ये कषायोदया बन्धनकरणाध्यवसायास्ते सर्वस्तोकाः। प्रकृतिप्रदेशबन्धयोश्च योगप्रत्ययत्वादिहाग्रहणं, तेभ्य उदीरणाध्यवसाया असंख्येयगुणाः । ततोऽपि संक्रमाध्यवसायाः-संक्रमोद्वर्तनापवर्तनाकरणाध्यवसायाः समुदिता असंख्येयगुणाः । ततोऽप्युपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधत्त्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया असंख्येयगुणाः ॥७४॥ ॥ इति श्रीन्यायाचार्योपाध्याययशोविजयगणिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy