________________
GOOGLEGARD
मिथ्यादृष्टिः, शुभप्रकृतीनां तु सम्यग्दृष्टिः। नवरं सातवेदनीययशः कीयुच्चैर्गोत्राणामुत्कृष्टानुभागसंक्रमसामीनोऽपूर्वकरणस्थानकात्परतोऽपि भवन्ति । उत्कृष्टानुभागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानकपर्यवसाना एव वेदितव्याः । जघन्यानभाग| देशोपशमना तीर्थकरबर्जानां सर्वासामपि प्रकृतीनामेकेन्द्रिये अभवसिद्धिकपायोग्यजघन्यस्थितौ वर्तमाने द्रष्टव्या। तीर्थकरनाम्नस्तु | जघन्यानुभागसंक्रमवत् । प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुल्या वेदितव्या । एतदुक्तं भवति-उत्कृष्टप्रदेशदेशोपशमना उत्कृष्टप्रदे-16)
शसंक्रमतुल्या। नवरं येषां कर्मणामपूर्वकरणात्परतोऽपि उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, तेषामप्यपूर्वकरणगुणस्थानकचरमसमयमेव | यावत् उत्कृष्टप्रदेशोपशमना वाच्या । जघन्या पुनः प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुल्यैवेति ॥७॥
(उ०)-अनुभागसंक्रमसमाऽनुभागदेशोपशमना वाच्या, सा च कियत्पर्यन्तमित्याह-निवृत्तावपूर्वकरणचरमसमयं यावदित्यर्थः । इदमुक्तं भवति य एवोत्कृष्टानुभागसंक्रमस्वामी प्रागुक्तः स एवोत्कृष्टानुभागदेशोपशमनाया अपि स्वामी । तत्राशुभप्रकृतीनां मिथ्यादृष्टिः,शुभप्रकृतीनां तु सम्यग्दृष्टिः,केवलं सातवेदनीययशाकीयुच्चैर्गोत्राणामुत्कृष्टानुभागसंक्रमस्वामिनोऽपूर्वकरणगुणस्थानकात्परतोऽपि भवन्ति । उत्कृष्टानुभागदेशोपशमनायास्तूत्कर्षतोऽप्यपूर्वकरणगुणस्थानकान्ता एव ज्ञेयाः । जघन्यानुभागदेशोपशमना च जिननामवर्जितानां सर्वासामपि प्रकृतीनामेकेन्द्रियेऽभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमाने द्रष्टव्या। जिननाम्नस्तु य एव जघन्यानुभागसंक्र|मस्वामी स एव जघन्यानुभागदेशोपशमनास्वामी द्रष्टव्यः। प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुल्या ज्ञातव्या । अयमिह परमार्थःउत्कृष्टप्रदेशदेशोपशमनोत्कृष्ट प्रदेशसंक्रमतुल्या । नवरं येषां कर्मणामपूर्वकरणात्परतोऽप्युत्कृष्टः प्रदेशसंक्रमः प्राप्यते तेषामप्यपूर्वकरणगुणस्थानान्त्यसमयमेव यावदुत्कृष्टप्रदेशदेशोपशमना वाच्या । जघन्या तु प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुल्यैवेति ॥७१॥