SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ SCSSIOD उत्कृष्टस्थितिदशोपशमनास्वामी यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितः स एव वेदितव्यः । जघन्यस्थितिदेशोपशमनास्वाम्यपि XI जघन्यस्थितिसंक्रमस्वाम्येव प्रतिपत्तव्यः, केवलं जघन्यस्थितिदेशोपशमनास्वामी अभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमान एकेन्द्रियो द्रष्टव्यः, तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात् । याश्चेतराः प्रकृतयोऽभवसिद्धिकप्रायोग्यजघन्यस्थितयो न भवन्ति तासामुदलके पूर्वकरणे वा जघन्यस्थितिदेशोपशमना वेदितव्या। तत्रोदलके उद्वलनप्रायोग्यानां प्रकृतीनामन्तिमे स्थितिखण्डे पल्योपमासंख्येयभागमात्रे वर्तमानः, तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेन्द्रियोऽनेकेन्द्रियो वा, शेषप्रकृतीनां तूहलनयोग्यानां वैक्रियसप्तकदेवदिकनरकद्विकमनुष्यद्विकोच्चैगोत्ररूपाणामेकेन्द्रिय एव, अन्यासां त्वपूर्वकरणचरमसमये वर्तमानो | जघन्यां देशोपशमनां करोति ॥७॥ । (उ०)-उक्ता प्रकृतिदेशोपशमना, अथ स्थितिदेशोपशमनामाह-स्थितिसंक्रमवत् स्थितिदेशोपशमना द्रष्टव्या । तत्रोत्कृष्टस्थिति|संक्रमप्ररूपणात उत्कृष्टस्थितिदेशोपशमनाप्ररूपणाया न कोऽपि विशेषः । जघन्यस्थितिदेशोपशमनाऽपि जघन्यस्थितितुल्यैव प्रायो, नवरमिह जघन्यस्थितिदेशोपशमनास्वामित्वप्ररूपणाऽभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमानस्यैकेन्द्रियस्य कार्या, तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात् । याश्चेतराः प्रकृतयोऽभवसिद्धिकप्रायोग्यजघन्यस्थितयो न भवन्ति तासामुदलके| पूर्वकरणे वा जघन्यस्थितिदेशोपशमना द्रष्टव्या। तत्रोदलके उद्बलनप्रायोग्यप्रकृतीनामन्तिमे स्थितिखण्डे पल्योपमासंख्येयभागप्रमाणे | उद्बलनाय व्यापृतः, तत्राप्याहारकसप्तकसम्यक्त्वमिश्राणामेकेन्द्रियोऽनेकेन्द्रियो वा। शेषप्रकृतीनां तूद्वलनयोग्यानां वैक्रियसप्तकदेवद्विकनरकद्विकमनुजद्विकोच्चैर्गोत्ररूपाणामेकेन्द्रिय एव । अन्यासां त्वपूर्वकरणान्त्यसमये जघन्यां देशोपशमनां करोति ॥७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy