________________
स्वनिवृत्तिबादरसंभवीनीतीह न भवन्ति । तत्राष्टाविंशतिरूपं देशोपशमनास्थानमाद्यगुणस्थानत्रयस्थेषु वेदकसम्यग्दृष्टिषु च प्राप्यते । सप्तविंशतिस्थानमुदलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यग्मिध्यादृष्टेर्वा । षड्विंशतिस्थानमुद्वलितसम्यक्त्वमिश्रपुञ्जदयस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं षड्विंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणावं ज्ञातव्यं, तदा मिथ्यात्वदेशोपशमनाया निवृत्तेः । तथाऽनन्तानुबन्धिनामुदलनेऽपूर्वकरणार्ध्व वर्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विशतिस्थानम् । क्षपितसप्तकस्यैकविंशतिस्थानम् । उक्तानि मोहनीयप्रकृतिस्थानानि । अथ नामकर्मप्रकृतिस्थानान्याह-'संकम'इत्यादि । नाम्नः प्रकृतिस्थानसंक्रमे यानि सयशांसि यशःकीर्तिसहितानि स्थानान्युक्तानि तान्येव निवृत्तिप्रायोग्यान्यपूर्वकरणप्रायोग्यानि-देशोपशमनायोग्यानि || भवन्तीत्यर्थः। तानि चेमानि-व्युत्तरशतं, दयुत्तरशतं, पण्णवतिः, पश्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिश्च । तत्रादिमानि चत्वारि स्थानानि यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्वेदितव्यानि, न परतः। शेषाणि च त्रीणि-त्रिनवतिचतुरशीतिद्वयशीतिरूपाण्यकेन्द्रियादीनां भवन्ति, न श्रेणिप्रतिपद्यमानानाम् । अन्यानि तु स्थानान्यपूर्वकरणमुणस्थानात्परतो लभ्यन्ते, नार्वागिति न देशोपशमना| योग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यम् । तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्या|त्मक, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य द्विप्रकृत्यात्मकं, गोत्रस्य देशोपशमनायोग्ये द्वे प्रकृतिस्थाने, तथाहि-द्वे एका चेति, | तत्रानुद्वलितोचैर्गोत्रस्य द्वे, उद्वलितोचैर्गोत्रस्य चैका। आयुषोऽपि द्वे प्रकृतिस्थाने, तद्यथा-द्वे प्रकृती एका चेति । तत्राबद्धपरभवायुष्कस्यैका, बद्धपरभवायुषस्तु द्वे इति ॥६९॥
इयाणि ठितिउवसामणा भन्नइ