________________
उपशमनाकरणम्
देशोप
शमना
12 एकविंशतिश्चेत्यर्थः । शेषाणि पुनरनिवृत्तिबादरे प्राप्यन्ते इति कृत्वा न संभवन्ति । तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसास्वादनसम्यग्मिकर्मप्रकृतिः ध्यादृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते । सप्तविंशतिस्थानमुदलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यनिध्यादृष्टेर्वा । षड्विंशतिस्थानमुदलित-
सम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं पविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्प॥८ ॥
| रतो वेदितव्यम् , तस्य मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथाऽनन्तानुबन्धिनामुद्वलनेऽपूर्वकरणात्परतो वर्तमानस्य चतुर्विंशतिस्थानम् , चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानम् । क्षपितसप्तकस्य एकविंशतिस्थानम् । सम्प्रति नामकर्मणः प्रकृतिस्थानान्याह'संकमे'त्यादि । प्रकृतिस्थानसंक्रमे नाम्नो यानि यशाकीर्त्या सह स्थानान्युक्तानि तान्येव 'निवृत्तिप्रायोग्यानि'-अपूर्वकरणप्रायोग्यानि भवन्ति, देशोपशमनायोग्यानि भवन्तीत्यर्थः। तानि चेमानि, तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , षण्णवतिः, पश्चनवतिः, त्रिनवतिः, चतुरशीति, द्वयशीतिश्चेति । तत्रादिमानि चत्वारि यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्वेदितव्यानि, न परतः । शेषाणि च त्रीणि | त्रिनवतिचतुरशीतिद्वयशीतिरूपाणि एकेन्द्रियादीनां भवन्ति, श्रेणिं प्रतिपद्यमानानां तु न संभवति । शेषाणि तु स्थानानि अपूर्वकरणगुणस्थानकात्परतो लभ्यन्ते नागिति देशोपशमनाऽयोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोप शमनायोग्यम् । तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकम् , दर्शनावरणस्य नवप्रकृत्यात्मकम् , वेदनीयस्य द्विप्रकृत्पात्मकम्-आयुगर्गोत्रयो द्वे स्थाने एका द्वे च प्रकृती ।। ६९ ।।
(उ०)--अथ देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपगामाह-मोहनीयस्य देशोपशमनायां पद् प्रकृतिस्थानानि भवन्ति । तद्यथाएकविंशतिः, तथा चतुरादियुता विंशतिरिति चतुर्विंशतिः, पञ्चविंशतिः, परविंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेत्यर्थः । शेषाणि
॥८
॥