SearchBrowseAboutContactDonate
Page Preview
Page 1136
Loading...
Download File
Download File
Page Text
________________ परतो गत्वा प्रतिपततां सा देशोपशमना प्रवत्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः । ध्रुवा अभव्यानां । भव्यानां त्वधुवा ।। | कृता मूलप्रकृतीनां साधनादिप्ररूपणा,सम्प्रत्युत्तरप्रकृतीनां सा क्रियते तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यद्विकदेवद्विकनरकद्विकसम्यक्त्वसम्यग्मिथ्यात्वोच्चगोंत्ररूपोद्वलनयोग्यत्रयोविंशतितीर्थकरायुश्चतुष्टयवर्जितं शेष त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म, तस्य देशोपशमना च. तुर्विधा, तद्यथा-सादिरनादिर्धवाऽध्रुवा च । तथाहि-मिथ्यात्वानन्तानुन्धिनां स्वस्वापूर्वकरणात्परतो देशोपशमना न भवति । शेषकर्मणां त्वपूर्वकरणगुणस्थानकात्परतो न भवतिः। ततः परतः स्थानात् प्रच्यवमानानां प्रवर्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः। ध्रवाध्रुवे पूर्ववत् । शेषाणां तूतुलनयोग्यत्रयोविंशत्यादीनामष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरधुवा च विज्ञेया ॥ (उ०)-एतद्विषयमेव कञ्चिद्विशेषमाह-दर्शनमोहनीयानन्तानुवन्धिनां स्वकनिवृत्तः स्वकीयस्वकीयापूर्वकरणात्परतो देशोपशमना न भवति । तत्र दर्शनत्रिकस्य क्षपका अविरतसम्यग्दृष्टयो देशविरताः सर्वविरता वा, उपशमकास्तु मनुष्याः प्रतिपन्न सर्व विरतयस्तावदशोपशमनां कुर्वन्ति यावत्स्वापूर्वकरणचरमसमयः । अनन्तानुबन्धिनां वितंयोजने प्रवृत्तास्तु चातुर्गतिका अपि स्वापूर्वकरणान्तिम| समयं यावद्दशोपशमकाः, न परतः । शेषाणां चारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानकचरमसमयइस्तावद्देशोपशमना । शेषकर्मप्रकृतीनां च सर्वोपशमना न भवत्येव, किं तु देशोपशमनैव, साऽपि चापूर्वकरणगुणस्थानं यावदवगन्त व्या, न परतः । अथ साद्यादिप्ररूपणा क्रियते-'जा' इत्यादि, या मूलप्रकृतय उत्तरप्रकृतयो वाऽनादिसत्ताकास्ता उपशमे दशोपशमनाधिकारे चतुर्विधाः साधनादिध्रुवाध्रुवभेदात् । तत्र मूलप्रकृतीनामष्टानामपि दशोपशमनाऽपूर्वकरणगुणस्थानकावं गत्वा पततां प्रवर्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, भव्यानां त्वध्रुवेति । कृता मूलपकृतीनां साद्यादिप्ररूपणा । अथोत्तरप्रकृ SeksOOKER
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy