________________
| देसकरणोपसमणा भण्णति, पगइठितिअणुभागपदेसाणमज्झवसाणविसेसेणं थोव उवसाभिजति ण सव्वं ।
| तम्हा देसकरणोपसमणा वुचति । 'तीए समियस्स अट्ठपय'त्ति-तातो देसकरणोपसामणाए उवसामियस्स पग12 तिहितिअणुभागप्पदेसस्स 'अट्ठपय'त्ति-अट्टएयं लक्षणं ॥६६॥
__(मलय०)-तदेवमुक्ता सर्वोपशमना। सम्पति देशोपशमनामभिधातुकाम आह-'पगइ'त्ति । देशतः 'करणाभ्यां'-यथाप्रवृत्तापूर्वक | रणसंज्ञाभ्यां कृत्वा प्रकृत्यादीनामुपशमना देशकरणोपशमना । इदमुक्तं भवति-यथाप्रवृत्त करणापूर्वकरणाभ्यां यत् प्रकृत्यादिकं देशतः उपशमयति न सर्वात्मना सा देशकरणोपशमना । सा च चतुर्विधा, तद्यथा-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुभागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्येकैका द्विधा-मूलपकृतिविषया उत्तरप्रकृतिविषया च । तया च देशकरणोपशमनाया 'शमितस्य' उपशमं नीतस्य । इदमर्थपदमिदम् तात्पर्यम् ।। ६६ ।
(उ०)--तदेवमुक्ता सर्वोपशमना, अथ देशोपशमनामभिधित्सुराह-देशभृताभ्यां करणाभ्यां यथाप्रवृत्तापूर्वकरणसंज्ञिताभ्यामुपशमना देशकरणोपशमना। यद्वा करणाभ्यामुक्तरूपाभ्यामुपशमना करणोपशमना, ततो देशस्य प्रकृत्यादीनामेकदेशस्य करणोपशमना देशकरणोशमनेति समासः, करणद्वयेन यत्प्रकृत्यादिकं देशत उपशमयति न सर्वात्मना सा देशोपशमनेत्यर्थः । सा च चतुर्विधा, तथाहि-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुभागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्पे कैका द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तया च देशोपशमनया शमितस्योपशमं नीतस्येदमर्थपदं इदं विशेषाकूतम् ॥६६।।
तस्स इमं लक्खणं
ONOMSONOSRekha