SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥७६॥ akv विधिमाह-इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसक वेदमुपशमयति पश्चात्स्त्रीवेदं तं च तावदुपशमयति यावत् स्वोदयस्य द्विचरमसमयः तस्मिँश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदसत्कं दलिकमुपशमितम् । ततश्चरमसमये व्यतीतेऽवेदका सती पुरुषवेदहास्यादिकाः सप्त प्रकृती युगपदुपशमयितुमुद्यतते । शेषं पुरुषवेदेन श्रेणिं प्रतिपन्नस्येव भावनीयम् । वर्षवरो नपुंसक उपशमश्रेणिं प्रतिपन्नः सँस्तथेत्येकामुदयस्थितिं मुक्त्वेत्यर्थः वर्षवरस्त्रीवेदौ समकं युगपदुपशमयति । 'कमारद्धे' इति - क्रमेणारब्धे सति, अत्रायं सम्प्रदायः- स्त्रीवेदेन पुरुषवेदेन चोपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तद्दूरं यावन्नपुंसकवेदेनापि श्रेणि प्रतिपन्नः सन् केवलं नपुंसक वेदमेवोपशमयति, तत ऊर्ध्वं तु नपुंमकवेदं स्त्रीवेदं च युगपदुपशमयितुं लग्नः सँस्तावद्गतो यावन्नपुंसक वेदोदयाद्धाया द्विचरमसमयः । तस्मिँश्च समये स्त्रीवेद उपशान्तो नपुंसकवेदस्य चैका समयमात्रोदयस्थितिरवशिष्यते । शेषं सर्वमुपशान्तम् । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भूत्वा पुरुषवेदादिकाः सप्तप्रकृतीर्युगपदुपशमयितुं प्रक्रमते । शेषं तथैव ।। ६५ ॥ सच्चुवसमणा सम्मत्ता इयाणि देसोपसमणा । तीसे इमे भेया पठई अणुभाग समूलुत्तराहि पविभत्ता । देसकरणोवसमणा तीए समियस्स अट्ठयं ॥६६॥ (चू० ) - 'पगतिठिति अणुभागप्पएसमूलुत्तराहि पविभत्त त्ति-पगतिदेसोपसमणा द्वितिदेसोपसमणा अणुभागदेसोपसमणा पदेसदेसोपसमणा य । 'मूलुत्तराहि पविभत्त'त्ति पुणो एक्केक्क दुविहा-मूल पगतिदेसोप| समणा उत्तरपगतिदेसोपसमणा य । 'देसकरणोव समण' त्ति देसकरणोपसमणा अणेग भैया, किं भणियं होति ? बाद उपशमना करणम् श्रेणेः प्रति पातक्रमः ॥७६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy