________________
HUGKERESEGONGO
इथिवेयं नपुंसगवेयपि उवसामित्तो जाति जाव नपुंसगवेयद्धाए दुचरिमो समतो, तंमि समते दोवि जुगवं उवसामेति। नपुंसगवेयस्स एगा उदयहिती सेसा भवति । अवेयगो सत्तकम्मपगडीतो उवसामेति, सेसं जहा | पुरिसवेयरवसामगस्स ॥६५॥
(मलय.)-एवं पुरुषवेदोदयेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः, सम्प्रति स्त्रीवेदेन प्रतिपन्नस्योच्यते-'उदय'ति । इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसकवेदमुपशयति, पश्चात् स्त्रीवेदम् । तं च तावदुपशम यति यावत्स्वोदयस्य द्विचरमसमयः । तस्मिश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितम् । ततश्चरमसमये | | व्यतिक्रान्ते अवेदका सती पुरुषवेदहास्यादिकाः सप्त प्रकृतीयुगपदुपशमयितुमारभते । शेषं पुरुषवेदेन श्रेणिं प्रतिपन्नस्येव वेदितव्यम् ।
सम्प्रति नपुंसकवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिमाह-'तह' इत्यादि । वर्षवरो नपुंसक उपशमश्रेणिं प्रतिपन्नः सन् तथेति एकामु| दयस्थिति मुक्त्वेत्यर्थः, समकं युगपत् नपुंसकवेदस्त्रीवेदावुपशमयति । 'कमारद्धे' इति-क्रोगारब्धे सति । तत्रायं सम्प्रदायः-स्त्री
वेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदुरं यावन्नपुंसकोदेनापि श्रेणिं प्रतिपन्नः सन् | नपुंसकवेदमेव केवलमुपशमयति । तत ऊर्ध्व पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितुं लग्नः । स च तावद्गतो यावन्नपुंसकवेदाद्धाया द्विचरमपमयः । तस्मिश्च समये स्त्रीवेद उपशान्तः । नपुंसकवेदस्य च एका समयमात्रोदयस्थितिर्वर्तते । शेषं सर्वमुपशान्तम् । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति । ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयितुं यतते, शेष तथैव ॥ ६५||
(उ०)-तदयं पुरुषवेदोदयेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः, सम्प्रति स्त्रीवेदेन नपुंसकवेदेन चोपशमश्रेणिं प्रतिपद्यमानस्य
RRODIAEOLONIOS