SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ | स्थानकद्विकं याति । कोऽपि देशविरतोऽपि भवति, कोऽपि अविरतसम्यग्दृष्टिरपि भवतीत्यर्थः । येषां मतेनानन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सासादनभावमपि गच्छति ।। ६२ ।। ( उ० ) – एवं परिपाट्या पतितः प्रमत्तगुणस्थाने आगत्य तत्र विश्रम्य प्रमत्ततदितरस्थान इति प्रमत्ताप्रमत्तसंयतगुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परिवृत्तीः कृत्वा कश्चिदनन्तरगुणस्थानद्विकमधस्तनं देशविरताविरतसम्यग्दृष्टिलक्षणं गच्छेत् । येषां च मतेनानन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सासादनभावमपि गच्छेत् ॥ ६२ ॥ उवसमसम्मत्तद्धा अन्तो आउक्खया धुवं देवो । तिसु आउगेसु बद्धेसु जेण सेटिं न आरुहइ ॥ ६३ ॥ (०) - 'उवसमसंमतद्धा अंतो आउक्खया धुवं देवो'त्ति उवसमसंमत्तद्धाए वहमाणो जति कालं करेइ धुवं | देवो भवति । जई सासायणो कालं करेति सो वि नियमा देवो भवति । किं कारणं ? भन्नति- 'तिसु आउगेसु बद्धेसु जेण सेटिंन आरुहइ' त्ति देवाउगवज्जेसु आउगेसु बद्धेसु जम्हा उवसामगो सेढीते अणुरुहो भवति तम्हा सासायणो वि देवलोगं जाति ॥ ६३ ॥ 1 (मलय ० ) – 'उवसम 'त्ति- औपशमिकसम्यक्त्वाद्धायां वर्तमानो यदि कश्चिदायुःक्षयात्कालं करोति, तर्ह्यवश्यं देवो भवति । अपि च सास्वादनभावमपि गतः सन् कालं करोति तथापि स देव एव भवति । यत आह-येन कारणेन देवायुर्वर्जितेषु शेषेषु त्रिष्वायुःषु | मध्येऽन्यतमस्मिन्नायुषि बद्धे श्रेणिमुपशमश्रेणिं नारोहति । ततः श्रेणिस्थितः श्रेणीतः प्रतिपतन् वा कालं कृत्वा देव एव भवति ॥ ६३॥ (उ० ) – औपशमिकसम्यक्त्वाद्वाया अन्तर्मध्ये वर्त्तमानो यदि कश्विदायुःक्षयात् कालं करोति तर्हि स ध्रुवमवश्यं देवो 25502aS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy