SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥७३॥ 4245ka यावत्प्रमत्तसंयत गुणस्थानम् ॥ ६१ ॥ ( उ० ) - क्षपकस्य क्षपकश्रेणिमारोहतो यत्र स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणिमारोहतस्तावान् स्थितिबन्धो द्विगुणो भवति, क्षपकापेक्षयोपशमकस्य मन्दपरिणामत्वात् । ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणितः प्रतिपततो द्विगुणो भवति, आरोहादवतरणपरिणामस्य मन्दत्वात् क्षपकसत्कस्थितिबन्धापेक्षया चायं चतुर्गुणो भवतीत्यर्थः । तथा क्षपकस्य यस्मिन् स्थानेऽशुभप्रकृतीनामनुभागो यावान् भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमकस्यानुभागोऽनन्त गुणस्ततोऽपि तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमश्रेणितः प्रतिपततोऽनन्तगुणः । शुभानां शुभप्रकृतीनां पुनरनुभागो विपरीतो वाच्यः । तथाहि-उपशम श्रेणीतः प्रतिपततो यस्मिन् स्थाने शुभप्रकृतीनां यावाननुभागो भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनामुपशमकस्यानु भागोऽनन्तगुणः, ततोऽपि तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनां क्षपकस्यानन्तगुणः । शेषमारोहत इव प्रतिपततोऽपि ज्ञेयं यावत्प्रमत्तसंयतगुणस्थानम् ॥ ६१ ॥ किच्चा पमत्ततदियरठाणे परिवत्ति बहुसहस्साणि । हिट्ठिल्लाणंतरदुगं आसाण वा वि गच्छेजा ॥६२॥ ( ० ) - 'किच्चा पमत्ततदियरट्ठाणे परिवत्ति बहुसहस्साणि' त्ति- पमत्तापमत्त संजयद्वाणेसु अणेगाओ परिवतीतो काउं, 'हेल्लिणंतरदुगं आसाणं वा वि गच्छिन' त्ति-हिद्विल्लाणंतरदुगं ति देसविरओ असंजयसंमद्दिट्ठी वा होजा, ततो परिवडमाणो आसाणं वा वि गच्छेन्नत्ति-कोति सासायणत्तणं गच्छेज्ञा ॥ ६२ ॥ ( मलय ० ) - 'किच्च 'त्ति - प्रमत्ताप्रमत्तसंयत गुणस्थानकयोः प्रभूतानि सहस्राणि यावत् परिवृत्तीः कृत्वा कश्चिदधस्तनमनन्तरं गुण उपशमनाकरणम् श्रेणेः प्रतिपातक्रमः ॥७३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy