SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ गतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि योगस्थानानि श्रेण्यसंख्येयभागगत| प्रदेशराशिप्रमाणानि तान्युत्कर्षतः पञ्च समयान् । ततः परं यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान् । ततोऽ| पराणि यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः सप्त समयान् । ततोऽपि पराणि यानि क्रमेण योगस्थानानि पूर्वोक्तसंख्या - कानि तान्युत्कर्षतोऽष्टौ समयान् । ततः पराणि पुनर्यानि क्रमेण योगस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्येव तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि प्राप्यन्ते । तदनन्तरं यथोक्तसंख्याकान्येव योगस्थानान्युत्कर्षतः षट् समयान् । ततोऽपि पराणि यथोप्रमाणान्येव योगस्थानानि पञ्च समयान् । एवं तावद्वाच्यं यावदन्तिमानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्युत्कर्षतो द्वौ समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२ ॥ स (०) - अथ कियन्तं कालमुक्तवृद्धिहानिरहिता जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति जिज्ञासायां समयप्ररूपणामाह - समयानामवस्थितिकालनियामकानां चत्वार आदिर्यस्याः सा चतुरादिवृद्धिर्भवतीति शेषः, सा च तावद्वाच्या यावदष्टकम् । 'इत्तो' त्तिइत ऊर्ध्वं समयानां हानिर्वक्तव्येति सम्पूर्य योजनीयं, सा च तावद्यावद्विकम् । सा च चतुरादिका वृद्धिः पर्याप्तजघन्यात्पर्याप्तसूक्ष्मनिगोदसत्कजघन्ययोगस्थानादारभ्य तावदवसेया यावदष्टकं ततः परं हानिः सापि तावद्यावदुत्कृष्टयोगस्थानम् इत्येष उत्कृष्टोऽवस्थि| तिकालः । इयमित्थमेवार्थवशादक्षरयोजना विधेया । अयमिह भावार्थ:- पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि तावन्ति योगस्थानानि तान्युत्कर्षतः पञ्च समायान् यावत् । ततः परं यानि तावन्ति तान्युत्कर्षतः षद् समयान् ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy