SearchBrowseAboutContactDonate
Page Preview
Page 1117
Loading...
Download File
Download File
Page Text
________________ ॥६॥ प्रथमसमये च यानि कर्माण्युदीर्यन्ते तान्युदयावलिकायां प्रवेशयति । यानि च नोदीरणामागच्छन्ति तेषां दलिकानि उदयावलिकाया कर्मप्रकृतिः २६ बहिस्ताद्गोपुच्छाकारसंस्थितानि विरचयति । यः पुनरुपशान्तमोहगुणस्थानकाद्धापरिक्षयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् Zउपशमना कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन् कुर्वन् प्रतिपतति । स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् ॥५७।। करणम् (उ०)-उपशान्ता मोहनीयप्रकृतयोऽकरणा भवन्ति, संक्रमणोद्वर्तनापवर्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्ती| त्यर्थः । दृष्टित्रिके दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापर्तने भवतः, न तदन्यत्करणम् । तत्र संक्रमो मिथ्यात्वसम्यमिथ्या श्रेणेः प्रतित्वयोः सम्यक्त्वेऽपवर्त्तना तु त्रयाणामपि । इत्थं चैतत्क्रोधेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मान | पातक्रमः | मनुभवन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति, ततः क्रोधोक्तप्रकारेण मानत्रिक, शेषं तथैव । यदा तु मायया श्रेणिं | प्रतिपद्यते तदा मायां वेदयन्नेव नपुंसकवेदोक्तप्रकारेण क्रोधत्रिक, ततो मानत्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव । यदा तु लोभेन श्रेणि प्रतिपद्यते तदा लोभं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकं, ततो मानत्रिक, ततो मायात्रिक, तत उक्तप्रकारेण लोभत्रिकमुपशमयति । अथ प्रतिपात उच्यते, स च द्विधा-भवक्षयेणाद्धाक्षयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धासमाप्तिः । तत्र यो भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वाण्यपि करणानि प्रवत्तन्ते, अविरतसम्यग्दृष्टित्वभावात, प्रथमसमये च यानि कर्माण्युदीयन्ते तान्युदयावलिकायां प्रवेशयति, यानि च नोदीरणायां निविशन्ते तेषां कर्मणां दलिकान्युदया. वलिकाया बहिस्ताद्गोपुच्छाकारसंस्थितानि रचयति । यस्तूपशान्तमोहगुणस्थानादद्धाक्षयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् ॥६९।। कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्त्या स्थितिघातादीन कुर्वन् पतति, स च तावत्प्रतिपतन्नायाति यावत्प्रमत्तसंयतगुणस्थानकम् ।।५७॥ DRONDA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy