________________
KM
कर्मप्रकृतिः
SASSA
करणम्
॥६५॥
किट्टिकरणाद्धायां समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणलोभद लिकं संज्वलनलोभे न संक्रमयति किन्तु स्वस्थान एव स्थितमुपशमं नीयते। द्वयावलिकाशेषायां पुनः किट्टिकरणाद्धायां बादरसंज्वलनलोभस्यागालो न भवति, किं तूदीरणव, सापि उपशमनातावद्यावदावलिका। तस्याश्च उदीरणावलिकायाश्चरमसमये यत् किट्टीकृतं द्वितीयस्थितिगतम् , 'यच्च पूर्वोक्तं'-समयोनावलिकाद्विकबद्ध-1 मित्यर्थः, या चैकावलिका किट्टिकरणाद्धायाः शेषीभूता, एतत्सर्वं 'लोभस्य'-संज्वलनलोभस्यानुपशान्तं वर्तते, शेषं पुनरुपशान्तम् । तथा तस्मिन्नेव समये द्वावप्यप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशान्तौ । संज्वलनलोभवन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीर-10 णाच्यवच्छेदश्च । एष एव चानिवृत्तिवादरसंपरायगुणस्थानकचरमसमयः॥५२-५३॥
होपशमना __(उ०)-अस्याः किट्टिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो भिन्नमुहूर्तप्रमाणो भवति । त्रायाणां च घातिकर्मणां दिनपृथक्त्वप्रमाणः । नामगोत्र वेदनीयानां च वर्षसहस्रपृथक्त्वं-प्रभूतवर्षसहस्रप्रमाणः। पृथक्त्वशब्दोऽत्र बहुत्ववाची । तथा किट्टिकरणाद्धाया अन्ते चरमसमये संज्वलनलोभस्य स्थितिबन्धोऽन्तमुहर्तमित्यध्याहारः। केवलमिदमन्तर्मुहत्त स्तो। कतरमवसेयम् । तथा 'सि' ति-तेषां घातिकर्मणामन्तर्दिवसस्यान्तरहोरात्रस्य स्थितिबन्धः । अघातिनां तु नामगोत्रवेदनीयानां वर्षसहस्रपृथक्त्वप्रमाणात् किट्टिकरणाद्धासंख्येयभागातिक्रमभाविनः स्थितिबन्धादन्योऽन्यो हीनः हीनतरः स्थितिवन्धो भवस्तस्मिन् किट्टिकरणाद्धाचरमसमये द्विवर्षस्य द्वयोर्वर्षयोरन्तमध्ये भवति । तथा किट्टिकरणाद्धायां समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणलोभदलिक संज्वलनलोभे न संक्रमयति, तदानीं तस्य पतगृहतानिवृत्तेः, किंतु स्वस्थान एव स्थितमुपशम नीयते । द्वयाबलिकाशेषायां च किट्टिकरणाद्धायां बादरसंज्वलनलोभस्यागालो न भवति, किंतूदीरणैव, साऽपि तावद्यावदावलिकाऽवशिष्यते । तस्याश्चोदीर
seama