SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ ___(मलय०)-'अणुभागो'त्ति-प्रथमसमयकृतानां किट्टीनामनुभागो यथोत्तरमनन्तगुणो वाच्यः । तद्यथा-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टी सा सर्वस्तोकानुभागा। ततो द्वितीयाऽनन्तगुणानुभागा । ततोऽपि तृतीयाऽनन्तगुणानुभागा। एवं तावद्वाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिरिति । एवं द्वितीयादिष्वपि समयेषु किट्टीनां प्ररूपणा कर्तः | व्या । संप्रत्यासामेव किट्टीनां परस्परमल्पबहुत्वमुच्यते-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टी सा स्तोकपदेशा।। | ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा किट्टी साऽसंख्येयगुणप्रदेशा। ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा सासंख्येयगुणप्रदेशा। एवं तावद्वक्तव्यं यावच्चरमसमयः। तथा प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टी सा सर्वप्रभृतानुभागा । ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वोत्कृष्टानुभागा किट्टी साऽनन्तगुणहीना। ततोऽपि | तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागाऽनन्तगुणहीना । एवं तावद्वक्तव्यं यावच्चरमसमयः। 'चाउम्मासे'त्यादि । 'मोहे' मोहनीये संज्वलनानां चातुर्मासिकात् स्थितिबन्धादारभ्यान्योऽन्यः स्थितिबन्धः संख्येयेन भागेनोन ऊनतरस्तावद्वक्तव्यो यावत किट्टी. करणाद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणः स्थितिबन्धो भवति । स च प्रायस्तथैवोक्तः ॥५१॥ (उ०)-प्रथमसमयकृतानां किट्टीनामनुभागो यथोत्तरमनन्तगुणो वाच्यः । तथाहि-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्व-13 मन्दानुभागा किट्टी सा सर्वस्तोकानुभागा, ततो द्वितीयाऽनन्तगुणानुभागा, ततोऽपि तृतीयाऽनन्तगुणानुभागा, एवं तावद्वाच्यं याव-IA त्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिः । उक्तं चान्यत्रापि-"आइसमयकयाणं मंदाईणं रसो अणंतगुणो" । एवं द्विती-18 | यादिसमयेष्वपि किट्टीनां प्ररूपणा विधेया । सम्पत्यासामेव किट्टीनां प्रदेशाल्पबहुत्वं परस्परमुच्यते-प्रथमसमयकृतानां किडीनां | SINESSOSORREC42
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy