________________
विशेषोनं प्रदेशाग्रमभिधानीयम् । इयमत्र भावना-पथमसमयकृतासु किट्टिषु मध्ये या सर्वमन्दानुभागा किट्टी तस्याः प्रदेशाग्रं सर्व-11
प्रभृतम्, ततोऽनन्तरेणानन्तगुणेनानुभागेनाधिकायां द्वितीयकिट्टी प्रदेशाग्रं विशेषहीनम्, ततोऽप्यनन्तरेणानन्तगुणानुभागेनाधिकायां 1 तृतीयकिट्टी विशेषहीनं, एवमनन्तरानन्तरानुभागाधिकासु किट्टिषु विशेषहीनं विशेषहीनं तावद्वक्तव्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिरिति । एवं सर्वेष्वपि समयेषु प्रत्येकं भावनीयम् ॥५०॥
(उ०)-या अनुसमय-समयं समयं प्रत्यपूर्वा नवनवाः किट्टीः करोति ताः प्रतिसमयमसंख्येयगुणहानियुक्तश्रेणिभाजो द्रष्टः | | व्याः । नवत्वं च प्रतिसमयं यथोत्तरमनन्तगुणहीनरसत्वापादनेन द्रष्टव्यम् । अयं भावार्थः-प्रथमसमये प्रभूताः किट्टीः करोति, द्विती-12 यसमयेऽसंख्येय गुणहीनाः, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीनाः, एवं तावदभिधातव्यं यावत्किट्टिकरणाद्धायाश्चरमसमयः । दलिक
तद्विपरीतं-किट्टिसंख्याविपरीतं द्रष्टव्यम् । तथाहि-प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोक, ततो द्वितीयसमये सकलकिट्टिगतं | al दलिकमसंख्येयगुणं, ततोऽपि तृतीयसमये सकलकिट्टिगतं दलिकमसंख्येयगुणं, एवं तावदभिधातव्यं यावत्किट्टिकरणाद्धायाश्चरमसमयः।
तथा प्रथमसमयकृतासु किट्टिषु सामान्येनानुभागः सर्वप्रभूतः, ततो द्वितीयसमयकृतासु किट्टिषु सामस्त्येनानन्तगुणहीनः, ततोऽपि
तृतीयसमयकृतास्वनन्तगुणहीनः, एवं तावद्वाच्यं यावकिट्टिकरणाद्धाचरमसमयः । अथ प्रथमसमयकृतासु सर्वजघन्यायामूत्कृष्टान्तासु * किट्टिषु परस्परं प्रदेशाल्पबहुत्वं कियत्संख्ययेति चेद्?उच्यते, जघन्यकादिविशेषोनं-जघन्यामादिं कृत्वा परतः क्रमेण प्रतिकिट्टि विशेषोनं AA
विशेषोनं प्रदेशाग्रमभिधातव्यम् । अत्रेयं भावना-प्रथमसमयकृतासु किट्टिषु मध्ये या सर्वमन्दानुभागा किट्टिस्तस्याः प्रदेशाग्रं सर्वप्रभूतं, ततस्तन्मध्यगतद्वितीयकिट्टावनन्तरेणानन्तगुणेनानुभागेनाधिकायां प्रदेशाग्रं विशेषहीनं, ततोऽप्यनन्तरेणानन्तगुणेनानुभागेनाधिकायां
GOOG&acs
SODE