________________
लाव रसाविभागैः । ततः प्राक्तनक्रमेण द्वितीयं स्पधकमारभ्यते । एवं तृतीयादीनि तावद्वाच्यानि यावदनन्तस्पधकानि । एतेभ्य एव ||
चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति । न चैवंभूतानि कदापि पूर्व कृ-- तानि ततोऽपूर्वाणीत्युच्यते इति प्रकटोऽर्थः । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु स्थितिबन्येषु गतेषु सत्स्वश्वकर्णकरणादा व्यतिक्रामति, ततः किट्टिकरणादायां प्रविशति । तदानी च संज्वलनलोभस्य स्थितिबन्धो दिनपृथक्त्वप्रमाणः, शेषकर्मणां तु वर्षपृथक्त्वप्रमाणः । किट्टिकरणादायां च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । किट्टयो नाम पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च वर्गणा. गृहीत्वा तासामनन्तगुणहीनरसतामापाद्यकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापन, यथा | यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतकोत्तरं द्वयुत्तरादि वाऽऽसीत् तासामेवानुभागभागानां पश्चकस्य दशकस्य पश्चदशकादेश्च व्यवस्थापनमिति । तासामेव किट्टीनां विशेष प्रदिदर्शयिषुराह-'एगफड्डग'इत्यादि । ताः किट्टीरेकस्मिन्ननुभागस्पर्धके या अनन्ता वर्गणास्तासामनन्ततमे भागे यावत्यो वर्गणास्तावत्प्रमाणाः प्रथमसमये करोति, ता अप्यनन्ताः, तकि जघन्यानुभागस्पर्धकानुभागेन सदृशीः करोत्युत ततोऽपि हीनाः? उच्यते-ततोऽपि हीनाः । तथा चाह-'हेट्ठा', यत्सर्वजघन्यमनुभागस्पर्धकं तस्याधस्तात्क | रोति-ततोऽप्यनन्तगुणहीनरसाः करोतीत्यर्थः ॥४९॥ अणुसमयं सेढीए असंखगुणहाणि जाअपुवाओ । तविवरीयं दलियं जहन्नगाई विसेसूणं ॥५०॥
(चू०)-'अणुसमयं सेढीए असंखगुणहाणि जा अपुवाओंत्ति-जातो अपुवातो करेंति तातो गणणातो असंखे&ाजगुणहीणातो करेन्ति । ततिते समते असंखेजगुणहीणातो करेति एवं नेयव्वं ताव जाव किट्टीकरणद्वाए चरिम