________________
'एगफड्डग वग्गणअगंत भागो उ'-तातो किट्टीतो पढमसमते केवनियातो शिब्वत्तति चेत् ? भण्णइ - एगस्स अणुभागफड्डगस्स अणतातो वग्गणानो तासिं अनंतभागे जत्तियातो वग्गणातो तत्तियातो किट्टीतो निव्वत्तिति, तातोवि अनंतातो किट्टीतो फड्डुगगयाओ अणुभागानो कि सरिसानो निव्वेतेति उदाहु हीणाओ ? भण्गइ - 'हेट्ठे' त्ति, जं अणुभागसंतकम्मस्स सब्वज्जहन्नगफडुगं तस्स हेट्टतो अनंतगुणहीणरसातो णित्तेत्ति भणियं होति । (मलय ० ) – संज्वलन लोभस्य प्रथमस्थितेः प्रमाणनिरूपणार्थमाह- 'लोभस्स'त्ति । संज्वलनलोभस्य प्रथमस्थितेस्त्रयो भागाः । तत्र प्रथमतो द्वौ त्रिभाग प्रथमस्थितिं करोति, द्वयोस्त्रिभागयोर्द्वितीयस्थितेः समाकृष्य दलिकं निक्षिपतीत्यर्थः । तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धासंज्ञः, द्वितीयः किट्टिकरणाद्धासंज्ञः । संज्वलन लोभोदय प्रथमसमय एव च त्रीनपि लोभान् अप्रत्याख्यानादीन् युगपदुपश| मयितुमारभते । उपशमनाविधिः प्राग्वत् । तत्राश्वकर्णकरणाद्धासंज्ञे प्रथमे त्रिभागे वर्तमानः पूर्वस्पर्धकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्य चात्यन्तहीनरसतामापाद्यापूर्वाणि स्पर्धकानि करोति । आसंसारं हि परिभ्रमता न कदाचनापि बन्धमाश्रित्येदृशानि स्पर्धकानि कृतानि किन्तु सम्प्रत्येव विशुद्धिप्रकर्षवशात् करोतीत्यपूर्वाण्युच्यन्ते । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु स्थितिबन्धेषु गतेषु सत्सु अश्वकर्णकरणाद्वा व्यतिक्रामति । ततः किट्टिकरणाद्धायां प्रविशति । तदानीं च संज्वलन लोभस्य स्थितिबन्धो दिन पृथक्त्व प्रमाणः, शेषकर्म्मणां तु वर्ष पृथक्त्वमानः । किट्टिकरणाद्धायां च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किड्डीः करोति । कियो नाम पूर्वस्पर्धकापूर्वस्पर्धकेभ्यो वर्गणा गृहीत्वा तासामनन्तगुगही नरसता मापाद्य बृहदन्तरालतया यद्वयवस्थापनम् । यथा यासा| मेवासत्कल्पनयाऽनुभाग भागानां शतमेकोत्तरं ह्युत्तरं चासीन तासामेवानुभागभागानां पञ्चकं पञ्चदशकं पञ्चविंशतिरिति । सम्प्रति एता
आ