SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 22 | यावन्निरन्तरं भवति । आद्याः पुनस्तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असङ्खयेयभागमात्रं कालम् । जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति ॥ ११ ॥ (उ०)–कृता परम्परोपनिधा। अथ वृद्धिप्ररूपणां कुर्वन्नाह – वीर्यान्तरायक्षयोपशमः क्वचित्कदाचित्कथञ्चिद्भवतीति तन्निबन्धनानि योगस्थानान्यपि कदाचिदर्द्धन्ते कदाचिच्च हीयन्ते । तत्र वृद्धिश्चतुर्द्धा असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धि:, असंख्येगुणवृद्धिरिति । एवं हानिरपि चतुर्द्धा । यस्मादेवं वृद्धिहान्योश्चतुष्कं वर्त्तते तस्मात् कालोऽत्र नियतो वक्तव्य इति सोपस्कारमन्वयः । प्रतिज्ञातमेवाह- अन्तिमयोरसंख्येय गुणलक्षणयोर्वृद्धिहान्योः प्रत्येकं कालोऽन्तर्मुहूर्त्त, शेषाणाम् - आद्यानां तिसृणां वृद्धीनां हानीनां चावलिकाऽसंख्येयभागमात्रः कालः । इयमत्र भावना - क्षयोपशमप्रकर्षाद्विवक्षितयोगस्थानात्प्रतिसमयमपरस्मिन्नपरस्मिन्नसङ्ख्येयगुणवृद्धे योगस्थाने जीवस्य यदारोहणं साऽसङ्ख्येयगुणवृद्धिः । यत् पुनः क्षयोपशमापकर्षात्प्रतिसमयमपरस्मिन्नपरस्मिन्नसङ्ख्येयगुणहीने योग| स्थानेऽवतरणं साऽसङ्ख्येयगुणहानिः । इमे द्वे हानिवृद्धी उत्कर्षतोऽन्तर्मुहूर्त्तकालं यावन्निरन्तरं भवतः । आद्यास्तु तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असङ्ख्येयं भागम् । जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद् भवन्ति ॥ ११ ॥ इदाणिं एतेसु बुड्डिहाणिठाणेसु परिणया जीवा केच्चिरं कालं तव्भावेण अच्छंति ? तेण समयपरूवणा भण्णतिचउराई जावद्वगमित्तो जावं दुगं ति समयाणं । पज्जत्तजहन्नाओ जावुक्कोसं ति उक्कोसो ||१२|| (च्) - 'चउरादी जावट्ठगमेत्तो जावं दुर्गतिसमयाणं' ति - चउरो समया आदि जेसिं ठाणाणं ते चउरादीबड्डी 'जावट्ठग' त्ति - चउसमतिगाणि जोगट्टाणाणि सेढीए असंखेज्जतिभागमेत्ताणि सुहुमपज्जत्तगस्स जहन्नतो 2xt
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy