________________
पशमयितुमारभते । संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिका त्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणदलिकपक्षेपः संज्वलमाने न प्रवर्तते, किं तु संज्वलनमायादौ । आवलिकाद्विकशेषायां च संज्वलनमानस्थितावागालो व्यवच्छिद्यते, तत उदीरणैव केवला प्रवर्तते, साऽपि तावद्यावदावलिकाचरमसमयः । तत एका प्रथमस्थितेरावलिका शेषीभूताऽवतिष्ठते । तस्मिंश्च समये संज्वलनानां द्वैमासिकः स्थितिबन्धः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानीं च संज्वलनमानस्य बन्धोदयोदीरणा व्यवच्छिनाः । अप्रत्याख्यानप्रत्याख्या. नावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि प्रथमस्थितेरे कामावलिकां समयोनावलिकाद्विकबद्धाश्व लता मुक्त्वा शेषमन्यत्सर्वमुपशान्तं, तदानीमेव च संज्वलनमायाया द्वितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च प्रागुक्तां च संज्वलनमानमथमस्थितिसम्बन्धिनीमेकामावलिकामुदयनिर्मुक्तामुदयवत्यामस्यां संज्वलनमायायां स्तिबुकसंक्रमेण प्रक्षिपति, समयोनावलिकाद्विकबद्धार्थ लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदय प्रथमसमये च मायालो भयो मासौ स्थितिबन्धः । शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारभ्य तिस्रोऽपि माया युगपदुपशमयितुमारभते । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान प्रत्याख्यानावरणमायादलिकं संज्वलन्यां मायायां न प्रक्षिपति, किं तु संज्वलनलोभे । आवलिकाद्विकशेषायां त्वागालो व्यवच्छिद्यते । तत उदीरणैव केवला प्रवर्तते, साऽपि तावद्यावदावलिकाचरमसमयः । तस्मिथ समये संज्वलनमायालो भयोः स्थितिबन्ध एको मासः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानीमेव च संज्वलनमायाया बन्धोदयोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्यानावरणमाये चोपशान्ते । संज्वलन्या मायायाश्च प्रथमस्थितिसम्बन्धिनी मे कामावलिकां समयोनावलिकाद्विकबद्धाच लता विना निखिलमन्यदुपशान्तम् । तदानीमेव च संज्वलन लोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां
Sha