SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ O कर्मप्रकृतिः ॥५९॥ SANE NOCEScr लिकात्रिकशेषायां सत्यां पतद्हताऽपगच्छति । अप्रत्याख्यानप्रस्याख्यानावरणक्रोधस्य दलिकं न तत्र प्रक्षिपति, किं तु संज्वलनमाना-2 दाविति भावः। ततो यावलिकाशेषायां प्रथमस्थितौ संज्वलनक्रोधस्यागालो न भवति, किं तूदीरणैव । साऽप्युदीरणा तावत्प्रवर्तते उपशमनायावदेकावलिका शेषा भवति । उदीरणावलिकायाश्च चरमसमये संज्वलनानां स्थितिबन्धश्चत्वारो मासाः, शेषकर्मणां तु संख्येयानि करणम् वर्षसहस्राणि । सज्वलनक्रोधस्य च तदा बन्धोदयोदीरणाव्यवच्छेदः । अप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्वयस्य चोपशमः । तदानीं चैकामावलिकां समयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा शेषमन्यत्सर्व संज्वलनक्रोधस्योपशान्तम् । साऽपि चैका प्रथमस्थितिसत्का चरमावलिका स्तिबुकसंक्रमेण माने प्रक्षिप्यते । समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति संक्रमयति च । चारित्रमो होपशमना अनेनैव क्रमेण शेषानपि कषायाँस्विविधान् मानमायालोभरूपतया त्रिप्रकारान् पुनस्त्रिविधानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूप| तया प्रत्येकं त्रिभेदानुपशमयति । तत्र संज्वलनोपशमना पुरुषवेदसमाऽवसेया, अप्रत्याख्यानपत्याख्यानावरणमानादीनां चोपशमना पट्नोकषायसमा, नवरं संज्वलनानां पथमस्थितावेकावलिकाधिका पुरुषवेदापेक्षयाऽवशिष्टा द्रष्टव्या । तथाहि-पुरुषवेदस्य पथमस्थितिः षट्सु नोकषायेषूपशान्तेष्वेकसमयमात्राऽनुपशान्ताऽऽसीत् , अप्रत्याख्यानप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलनमानादीनामनुपशान्ता प्रथमस्थितिरेकावलिकाप्रमाणाऽवशिष्यत इति । इदमतिसंक्षिप्तमिति वितत्य प्रदश्यते-संज्वलनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदसमय एव संज्वलनमानस्य द्वितीयस्थितेः सकाशाद्दलिकं समाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोक प्रक्षिपति, द्वितीयादिस्थितिषु पुनः प्रथमस्थितिचरमसमयं यावद्यथोत्तरमसंख्येय गुणम् । प्रथमस्थितिप्रथमसमय एव च संज-12 लनमानस्य स्थितिबन्धश्चातुर्मासिकः, शेषाणां तु ज्ञानावरणीयादीनां संख्येयवर्षसहस्रप्रमाणः । तदानीमेव च त्रीनपि मानान् युगपदु RECE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy