________________
पशान्तम् । तदानीमेव संज्वलनमायाद्वितीपस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेणास्यां संचलनमायायां प्रक्षिपति । समयोनावलि काद्विकबद्वाश्च लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदयप्रथमसमये च मायालोभयो मासौ स्थितिबन्धः, शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारभ्य तिस्रोऽपि माया युगपदुपशमयितुमारभते । ततः संचलनमायायाः प्रथमस्थितौ समयोनाऽऽवलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमायादलिक संज्वलनमायांयां न प्रक्षिपति, किन्तु संज्वलनलोभे । आवलिकाद्विकशेषायां वागालो व्यवछिद्यते। तत उदीरणेव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः । तस्मिश्च समये संज्वलनमायालोभयोः स्थितिबन्ध एको मासः, शेषकर्मणां तु संख्येयानि वर्षाणि । ततोऽनन्तरसमये संज्वलनमायायां बन्धोदयोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्याख्यानाघरणमाये चोपशान्ते । संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकामावलिकां समयोनावलिकाद्विकबद्धाश्च लता मुक्त्वा शेषमन्यत् सर्वमुप
शान्तम् । तदानीमेव च संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च मायायाः 13 प्रथमस्थितिसत्कामेकामावलिका स्तिबुकसक्रमेण संज्वलनलोभे संक्रमयति । समयोनावलिकाद्विकबद्धाश्च लताः पुरुषवेदक्रमेणोपश- | मयति संक्रमयति च ॥४८॥
(उ०)-यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादेव समयादारभ्य त्रिविधं क्रोधमप्रत्याख्यानपत्याख्यानावरणसंज्वलनको
धानित्यर्थः, युगपदुपशमयितुमारभते । तदुपशमनां च कुर्वतः प्रथमस्थितिबन्धे पूर्णे सत्यन्यः स्थितिबन्धः संचलनानां संख्येयभाKगहीनो भवति, शेषाणां च संख्येयगुणहीनः । शेषं स्थितिघातादि पूर्वोक्तरीत्यैव वाच्यम् । संज्वलनक्रोधस्य च प्रथमस्थितौ समयोनाव