SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् ॥५८॥ चारित्रमो| होपशमना यति संक्रमयति च। अनेनैव क्रमेण शेषानपि कपायान् त्रिविधान-त्रिप्रकारान् मानमायालोभरूपान् , पुनः कथभूतानित्याह-त्रिविधाकर्मप्रकृतिः5न, प्रत्येक त्रिप्रकारान् । तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदात् त्रिविधो मानः, एवं मायालोभावपि, तान् उपशम यति । तत्र संचलनोपशमना पुरुषवेदसमाऽवसेया । अप्रत्याख्यानप्रत्याख्यानावरणमानादीनां चोपशमना षड्नोकषायसमा । नवरं 'पढमठिई आलिगा अहिग त्ति'-संज्वलनानां प्रथमस्थितौ पुरुषवेदापेक्षया एका आवलिकाधिका । तथाहि षट्सु नोकषायेखूपशान्ते|पुरुषवेदस्य प्रथमा स्थितिरेका समयमात्रा स्थितिरनुपशान्ता आसीत् । अप्रत्याख्यानप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलनमानादीनामनुपशान्ता प्रथमस्थितेरेकावलिकेति । इदं चातिसंक्षिप्तमुक्तमिति विशेषतो भाव्यते-यदा संज्वलनक्रोधस्य बन्धोदयोदीरणा व्यवच्छिन्नाः तदैव संज्वलनमानस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोकं प्रक्षिपति, द्वितीयस्थितावसंख्येयगुणम् , तृतीयस्थितावसंख्येयगुणम् । एवं तावद्यावत्प्रथमस्थितेश्वरमसमयः । प्रथमस्थितिप्रथमसमये एव संचलनमानस्य स्थितिबन्धश्चत्वारो मासाः, शेषाणां तु ज्ञानावरणीयादीनां संख्येयानि वर्षसहस्राणि । तदानीमेव च त्रीनपि मानान् युगपदुपशमयितुमारभते । संघलनमानस्य च प्रमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमानदलिकं न संज्वलमाने प्रक्षिपति, किंतु संचलनमायादौ । आवलिकाद्विकशेषायां वागालो व्यवच्छिद्यते । तत उदीरणेव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः। तत एका प्रथमस्थितेरावलिका शेषीभूता तिष्ठति । तस्मिश्च समये संज्वलनानां द्वौ मासौ स्थितिबन्धः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानी च संचलनमानस्य बन्धोदथोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्या नावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि च प्रथमस्थितेरेकामावलिकां समयोनावलि कादिकत्रद्वाश्च लता मुक्त्वा शेपमन्यत्सर्वमुबिला DHDSERSOGO ॥५८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy