________________
PROSOSODE
वसंतं तं असंखेजगुणसेढीए उवसाभिजति, परपगतिए पुण अहापवत्तसंकमेण संकामेति । पढमसमयवेयगस्स | संकमो बहुगो, से काले विसेसहीणो, एवं जाव उवसामणंतो। पढमसमयअवेयगस्स संजलणाणं ट्ठितिबंधो बत्तीसं | वरिसाणि अंतोमुत्तूणाणि, सेसाणं णाणावरणीयाणं संखेजाणि वासमहस्साणि द्वितिबंधो। पुरिसवेयपढमट्टितीते समऊणदुयावलियसेसाते जं पुरिसवेयदलियं बद्धं अणुवसंतं तं कोहातिगउवसामणद्धाए वट्टमाणो समउ| णाहिं दोहिं आवलियाहिं उवसामेहिति ।। ४७ ।।
(मलय०)-नवरं 'छस्सुत्ति । षट्सु नोकषायेषु उपशम्यमानेषु यस्मिन् समये षट् नोकषाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथमस्थितौ शेषा एकैवोदयस्थितिः समयमात्राऽवतिष्ठते । तदानीं च पुरुषवेदस्य स्थितिबन्धः षोडश वर्षाणि भवति। संज्वलनानां पुनः संख्येयानि वर्षसहस्राणि । तथा पुरुषवेदस्य प्रथमस्थितौ द्वयावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवच्छिद्यते, उदीरणा तु भवति ।
तस्मादेव च समयादारभ्य षण्णां नोकषायाणां सत्कं दलिकं पुरुषवेदे न संक्रमयति, किंतु संज्वलनेषु । यदा च प्रागुक्ता पुरुषवेदस्य KI सत्का एकाप्युदयस्थितिरतिक्रान्ता तदाऽसाववेदको भवति । अवेदकाद्धायाश्च प्रथमसमये समयद्वयोनावलिकाद्विकेन कालेन यद्धं | तदेव केवलमनुपशान्तं तिष्ठति । शेषं पुनः सकलमपि नपुंसकवेदोक्तप्रकारेणोपशान्तम् । तदपि च समयद्वयोनावलिकाद्विककालबद्धं तावदद्धया-तावता कालेन समयद्वयोनावलिकाद्विकप्रमाणेन कालेनेत्यर्थः उपशमयति । तदुपशमनाविधिश्वायम्-प्रथमसमये स्तोक| मुपशमयति, द्वितीयसमयेऽसंख्येयगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं तावद्वाच्यं यावत्समयद्वयोनावलिकादिकचरमसमयः । | परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलिकाद्विककालं यावद्यथाप्रवृत्तसंक्रमेण संक्रमयति । परं प्रथमसमये प्रभृतम् , द्वितीयसमये |
O