________________
देवद
| घातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु श्रुतज्ञानावरणाचक्षुर्दर्शनावरण भोगान्तरायागामनुभागं देशघातिनं बध्नाति । ततः संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु चक्षुदर्शनावरणीयस्यानुभागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु मते :- मतिज्ञानावरणीयस्य 'सपरिभोग' त्ति सपरिभोगान्तरायस्यानुभागं देशघातिनं बध्नाति । ततः पुनरपि स्थितिबन्धसहस्रेषु गतेषु सत्सु वीर्यान्तरायानुभागं देशघातिनं बध्नाति । 'असेडिगया' इत्यादि - अश्रेणिगताः क्षपकश्रेणिरहिता उपशमश्रेणिरहिता वा बन्धकाः पूर्वोक्तान्यपि कर्माणि सर्वघातीनि बध्नन्ति, पूर्वोक्तप्रकृतीनामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः ॥ ४०-४१ ।।
(०) - अथशब्दोऽधिकारान्तरसूचकः, यस्मिन् काले सर्वकर्मणां पल्योपमासंख्येयभागमात्रः स्थितिबन्धस्तस्मिन् कालेऽसंख्यसमयबद्धानामेव कर्मणामुदीरणा प्रवर्तते यतस्तावन्मात्रस्थितिबन्धकरणे बध्यमानप्रकृतिस्थित्यपेक्षया याः पूर्ववद्धाः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति, नान्याः, ताच चिरकालबद्धाः क्षीणशेषाः संभवन्तीत्य संख्येयसमयबद्धानां तदानीमुदीरणा । ततः स्थितिबन्धसहस्रेषु परिगलितेष्वत्रास्मिन् प्रस्तावे दानान्तरायं मनः पर्यायज्ञानावरणं च देशघाति बध्नाति, अनयोरनुभागं देशघातिनं बध्नातीत्यर्थः । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु अवधिज्ञानावरणावधिदर्शनावरणलाभान्तरायाणामनुभागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु श्रुतज्ञानावरण भोगान्तरायाचक्षुर्दर्शनावरणानामनुभागं देशघातिनं बध्नाति । | ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेष्वतिक्रान्तेषु चक्षुर्दर्शनावरणीयस्यानुभागं देशघातिनं बध्नाति । ततोऽवि संख्येयेषु स्थितिबन्धसहस्रेष्यतीतेषु 'मई सपरिभोग' ति मतिज्ञानावरणीयस्य परिभोगान्तरायसहितस्यानुभागं देशघातिनं बध्नाति । ततोऽपि स्थितिब न्धसहस्रेषु व्यतीतेषु सत्सु वीर्यान्तरायानुभागं देशघातिनं बध्नाति । अश्रेणिगताः क्षपक श्रेणिमुपशमश्रेणि वाऽप्राप्ताः पूर्वोक्तान्यपि दानान्तरायादीनि कर्माणि सर्वघातीनि बध्नन्ति तेषामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः ॥४०-४१ ॥
22SKE