________________
जातम् । इदमुक्तं भवति-मोहनीयनामगोत्राणि स्थितिसत्कर्माधिकृत्य प्राक् त्रिंशकानामधस्ताजातानि सम्प्रति तु त्रिंशत्कानामपि | मध्ये ज्ञानावरणदर्शनावरणान्तरायाणि वेदनीयस्याधस्ताजातानि, वेदनीयं तु सर्वोपरि जातम् । तदनन्तरं च तस्य वेदनीयस्यान्यः स्थि-| | तिबन्धः सर्वेभ्योऽप्यसंख्येयगुणो जायते । अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वमुच्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो ना. मगोत्रयोरसंख्येयगुणः, स्वस्थाने तु मिथः समानः, ततोऽपि ज्ञानावरणदर्शनावरगान्तरायाणामसंख्येयगुणः, स्वस्थाने तु मिथस्तुल्यः, | ततोऽपि वेदनीयस्यासंख्येयगुणः । ततोऽनेनैव विधिना स्थितिबन्धसहस्रपु गतेषु सत्सु त्रिंशत्कानां-त्रिंशत्सागरोपमकोटाकोटिस्थिति| कानां ज्ञानावरणदर्शनावरणान्तरायाणामुपरि स्थितिबन्धमधिकृत्य विंशतिके नामगोत्रे जाते । अत्राल्पबहुत्वमिदं-सर्वस्तोको मोहनीयस्य । स्थितिबन्धः, ततो ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि नामगोत्रयोरसंख्येयगुणः, खस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्य विशेषाधिकः । 'असंखगुणणाए'त्ति-यत्र मोहनीयं ज्ञानावरणादिभ्योऽसंख्येयगुणहीनं कृतं ततः | प्रभृति सर्वत्राप्यसंख्येयगुणहीनमेव क्रमेण एत्यागच्छति । तथा तृतीय वेदनीयं विंशतिकाभ्यां नामगोत्राभ्यां विशेषाधिकं जातं सत्सवत्रापि विशेषाधिकमेव क्रमेण एत्यनुवर्तते ॥३७-३८-३९॥
जमि काले एरिसो द्वितिबंधो तंमि काले केवति कालहितीगा उदीरणा एइ तं निरूवणत्थं भन्नतिअहुदीरणा असंखेजसमयबद्धाण देसघाइ स्थ। दाणंतरायमणपज्जवं च तो ओहिदुगलाभो ॥४०॥ सुयभोगाचक्खूओ चक्खू य ततो मई सपरिभोगा। विरियं च असेढिगया बंधंति ऊ सव्वघाईणि ॥४१॥ ITE
(चू०)-'अह उदीरणा असंखेनसमयबद्धाण'त्ति-अहसदो अन्नाहिगारे, असंखेज़समयबद्धाणं कम्माणं उदीरणा । कहं भण्णइ-जाहे पलिओवमस्स असंखेजतिभागं द्विती बन्धन्ति तम्मि काले जातो कंमहितीतो बज्झ
SMOKerakSONGGOODire