SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४०॥ अन्यं स्थितिबन्धं नामगोत्रयोरसंख्येय गुणही नमारभते, शेषाणां तु संख्येयगुणहीनमित्यर्थः । अत्र स्थितिसत्कर्मापेक्षयाऽल्पबहुत्वं चिन्त्यते -- सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावर गदर्शनावरणवेदनीयान्तरायाणां स्थितिसत्कर्मासंख्येयगुणं स्वस्थाने तु परस्परं तुल्यं, ततोऽपि मोहनीयस्य संख्येयगुणम् । ततः स्थितिघातसहस्त्रेषु गतेषु सत्सु ज्ञानावरणदर्शनावर गवेदनीयान्तरायाणां स्थि|तिबन्धोऽसंख्येयगुणहीनो भवति । तदानीं स्थितिसत्कर्माधिकृत्येदमल्पबहुत्वं-- सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णां ततोऽसंख्येयगुणं स्वस्थाने तु मिथः समानं, ततो मोहनीयस्यासंख्येयगुणम् । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक पहारेण तीसगाणमहो मोहे' त्ति- एक प्रहारेणैकहेलयैव त्रिंशत्कानां त्रिंशत्सागरोपमकोटाकोटिस्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामधस्तान्मोहनीये कर्मणि स्थितिबन्धं सत्तां चाधिकृत्या संख्येयगुणहानिर्भवति, नात्र कश्चिदन्यो विकल्पः करणीयः । पूर्वं हि | मोहनीयस्य सत्कर्म ज्ञानावरणीयादीनामुपरिष्टाद संख्येयगुणमासीत्, सम्प्रति पुनरेक हेलयैव तेषामवस्ताद संख्येयगुणहीनं जातमिति, वृहत्तर स्थितिखण्डापवर्तनमेतदिति भावः । अत्राल्पबहुत्वमुच्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येपगुणं, ततोsपि ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणमिति । ततः स्थितिबन्ध सहस्रेषु गतेषु सत्सु 'वीसगहेडा य' त्ति- मोहनीयस्य स्थितिब न्ध एकहेलयैत्र विंशतिकयोर्विंशतिसागरोपमकोटाको टिस्थितिकयोर्नामगोत्रयोरधस्तादसंख्येयगुणहीनो जातः । अत्र स्थितिबन्धमाथि त्याल्यबहुत्वं चिन्त्यते - सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो नामगोत्रयोर संख्येयगुणः स्वस्थाने तु परस्परं तुल्यः, ततो ज्ञानाव | रणादीनां चतुर्णामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । ततः कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तीसगाणुप्पि तइयं च' त्ति-तृतीयं वेदनीयं स्थितिसत्कर्माधिकृत्य त्रिंशत्कानां त्रिंशत्सागरोपमकोटाकोटिस्थितिकानां ज्ञानावरणदर्शनावरणान्तरायाणामुपरि 57 उपशमनाकरणम् चारित्रमोहोपशमना ॥४०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy