________________
Ma
| पल्यस्येति षष्ठी पञ्चम्यर्थे, अध इति चाध्यहर्तव्यं । ततः पल्योपमादधः स्थितिबन्धस्य संख्येयगुणहानिर्भवतीत्यर्थः । इदमुक्तं भवति - यस्य कर्मणो यदा पल्योपमप्रमाणः स्थितिबन्धस्तस्य तत्कालादनन्तरमन्योऽन्यः स्थितिबन्धो जायमानः संख्येयगुणहीनो भवति । ततश्चेदानीं नामगोत्रयोः पल्योपमप्रमाणात् स्थितिबन्धादन्यं स्थितिबन्धं संख्येयगुणहीनं करोति, शेषाणां तु कर्मणां पल्यो|पमसंख्येय भागहीनं करोति । एवं कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां पल्योपममात्रः स्थिति| बन्धः, मोहनीयस्य च सार्धपल्योपममात्रः स्यात् । ततो ज्ञानावरणीयादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु | संख्येयभागहीनः, तत ऊर्ध्वं स्थितिबन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पल्योपमप्रमाणो भवति । ततो मोहनीयस्यान्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । तदानीं च शेषकर्मणां पल्योपमसंख्येयभागप्रमाणः स्थितिबन्धो भवति । अत्राल्पबहुत्वमेततू - नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकं ज्ञानावरणदर्शनावर गवेदनीयान्तरायाणां संख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं, ततोऽपि | मोहनीयस्य संख्येयगुणं ।' मोहरूप जाव पलं संखेज्जइभागह 'ति यावन्मोहस्य मोहनीयस्य पल्यं पल्योपममात्रः स्थितिबन्धो न भवति तावत्प्राक्तनः सर्वोऽपि मोहनीयस्य स्थितिबन्धः संख्येयभागाः पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः, पल्योपममात्रे च स्थितिबन्धे जाते सत्यन्यं स्थितिबन्धं संख्येयगुणहीनं करोति, एतच्च भावितमेव । अस्माच्च संख्येय गुणहीनान्मोहनीयस्य स्थितिबन्धात्प्रभूतेषु स्थितिबन्धेषु गतेषु सत्सु मोहनीयस्यापि स्थितिबन्धः पल्योपमसंख्येयभागमात्रो भवति । तदानीं च यद्भवति तदाह - ' अमोहा तो णवरमसंखगुणेत्यादि' 'तो' ति- ततः सर्वेषां कर्मणां पल्योपमसंख्येयभागमात्रस्थितिबन्धभवनानन्तरं ' अमोहे' इति द्विवचनतात्पर्यान्मोहनीयवर्जे नामगोत्रे गृह्येते नवरं केवलं अन्यं स्थितिबन्धमधिकृत्या संख्येयगुगहीने भवतः,
ि