SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ Caca धर्मप्रकृतिः ॥३९॥ सत्कर्माधिकृत्य प्राक् त्रिंशत्कानामधस्ताजातानि, सम्प्रति पुनस्त्रिंशत्कानामपि मध्ये ज्ञानावरणदर्शनावरगान्तरायाणि वेदनीयस्याधस्ताजातानि, वेदनीयं तु सर्वोपरि जातम् । तदनन्तरं च तस्य वेदनीयस्यान्यः स्थितिबन्धः सर्वेभ्योऽप्यसंख्येयगुणो जायते । उपशमनास्थितिबन्धमेवाश्रित्याल्पबहुत्वमुच्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं करणम् तुल्यः । ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्यासंख्येयगुणः। ततोऽनेनैव विधिना स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तो'ति इति-ततः 'त्रिंशत्कानां' त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावर गदर्श चारित्रमोनावरणान्तरायाणां स्थितिबन्धमधिकृत्योपरि विंशति के नामगोत्रे जाते। अत्राल्पबहुत्वं-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो होपशमना ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः ततोऽपि नामग्रोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्य विशेषाधिकः । 'असंखगुणणाए'त्ति-यत्र मोहनीयं ज्ञानावरणादिभ्योऽसंख्येयगुणहीनं जातम् ततःप्रभृति सर्वत्राप्यसंख्येयगुणहीनमेव क्रमेण एति आगच्छति । तथा तृतीय' च-वेदनीयं 'विंशतिकाभ्यां'-विंशतिसागरोपमकोटीकोटीप्रमाणस्थितिकाभ्यां नामगोत्राभ्यां विशेषाधिकं संजातं सत् सर्वत्रापि विशेषाधिकमेव क्र मेग एति-अनुवर्तते ॥३७-३८-३९॥ (उ०)-पल्योपमसार्धपल्योपमद्विपल्योपमानि यावत्पूर्वक्रमेणध हानिरल्पबहुत्वं च । अयमिह भावार्थ:-ए केन्द्रियवन्धतुल्यबन्धानन्तरं स्थितिखण्डसहस्रेषु गतेषु सत्सु नामगोत्रयोः स्थितिबन्धः पल्योपममात्रः, ज्ञानावरगदर्शनावरगान्तरायवेदनीयानां सार्धपल्योपममानः, मोहनीयस्य द्विपल्योपमप्रमाणो भवति । अमुं च पल्योपममाधपल्योपमादिकं स्थितिबन्धं यावत्प्राक्तनः स्थितिबन्धः सर्वोऽपि पूर्व- ॥३९॥ | स्मात्पूर्वस्मात् पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो ज्ञातव्यः । स्थितिसत्कर्मणोऽपि चाल्पबहुत्वं बन्धक्रमेण तथैवेति ।[१
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy