SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ ORDARSHAN |मन्य स्थितिबन्धमारभते, शेषाणां तु संख्येयगुगहीनम् । अत्र स्थिति पत्कर्मापेक्षयाऽल्परहुत्वं चिन्त्यो-सर्वस्तोकं नामगोत्रयोः | सत्कर्म, ततो ज्ञानावरणदर्शनावरगवेदनीयान्तरायाणामसंख्येय गुगं, स्वस्थाने तु परसरं तुल्यं ततोऽपि मोहनीयस्य संख्येयगुगम् । ततः स्थितिघातसहस्रेषु गतेषु सत्सु ज्ञानावरगदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धोऽसंख्येषगुणहीनो भवति । तदानी च |स्थितिसत्कर्मापेक्षयाऽल्पबहुत्वं चिन्त्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यम्, ततो मोहनीयस्यासंख्येयगुणम् । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक्पहारेग तीसगागमहो मोहे'ति-एकमहारेण एकहेलयैव त्रिंशत्कानां-त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामबस्तान्मोहनीयस्य स्थितिरसंख्येयगुणहीना भवति । नैपात्रान्यो विकल्पः कश्चित्करणीयः । इयमत्र भावना-पूर्व मोहनीयस्य सत्कर्म ज्ञानावरणोयादीना| मुपरिष्टादसंख्येयगुणमासीत् , सम्प्रति पुनरेकहेलयैव तेपामधस्तादसंख्येयगुणहीनं जातमिति । अत्राल्पबहुत्वमुच्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येयगुणं, ततोऽपि ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यम् । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु 'वीसग हेठा य'-मोहनीयस्य स्थितिबन्ध एकहेलयैव विंशतिकयोविंशतिसागरोपमकोटी कोटीस्थितिकयो मगोत्रयोरधस्तादसंख्येयगुणहीनो जातः । अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वं चिन्त्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततो ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुगः, स्वस्थाने तु परस्पर तुल्यः । ततः कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तीसगाणुप्पि तइयं च'-तृतीयं वेदनीयं स्थितिसत्कर्माधिकृत्य त्रिंशत्कानां त्रिंशत्सागरोपमकोटीकोटिस्थितिकानां ज्ञानावरगदर्शनावरणान्तरायाणामुपरि जातम् । एतदुक्तं भवति-मोहनीयनामगोत्राणि स्थिति O D
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy